2023-04-09 16:41:53 by jayusudindra
This page has been fully proofread once and needs a second look.
अजायंतेति-अस्मात्पूर्वोदितात् चिनचेव्वभूपात् मूर्त्यम्बिकायां मूर्तिनाम्न्यां महिष्याम् । महिते श्लाघनीये चक्रवर्तिजननस्वरूपयोग्ये । मुहूर्ते लग्ने ।
अयं प्रसिद्धः । अयमिति प्रत्यक्षनिर्देशात् रघुनाथनाम्नि पुत्रे विनिहितराज्य तन्त्रइदानीं वर्तमान इति व्यज्यते । यद्वा तत्कृतदेवब्राह्मणप्रतिष्ठादीनां अद्य परिदृश्यमानतया "नर:पतितकायोपि यशःकायेन जीवति" इति न्यायेन प्रत्यक्षनिर्देशः । अच्युतेन्द्र: अच्युतनामा इन्द्रः, परमैश्वर्य इति राजाधिराज इत्यर्थः । यद्वा अच्युत इन्द्रइवेति इन्द्रतुल्यप्रभाव इत्यर्थ: । अजायत अभवत् । "जनी प्रादुर्भावे " इति धातोर्लङ् । यस्य अच्युतभूपस्य आज्ञापनचीटिकाशासनलेख: निदेशाक्षरयुक्ता चीटीति भाव: । सामन्तानां सपत्नानां राज्ञामित्यर्थः । चूडाभुवि मकुटदेशे । केतकीनां विलासार्थ- विच्छुरितकैतकदलानां सखी सहचरी तथाविधया केतक्या सह किरीट- प्रान्ते भक्तिभारेण निक्षिप्तेति स्थानतो वर्णतः परिमाणेन च केतकीसदृक्षेति भावः । तेनास्य सामन्तानां च महिमातिशये महदन्तरमिति व्यज्यते । अत्र सखीति निर्देशेन सादृश्यस्यार्थात् प्रतीत्या आर्थी उपमा ॥ ३७॥
यशःपयोभिर्भरिताद्यदीयैर्ब्रह्माण्डभाण्डाद्वहिरुलुसद्भिः ।
प्रायेण तादृक्षभुजप्रतापैर्बोभूयते भूरिनवप्रवाळैः ॥ ३८ ॥
यश इति – यदीयै: अच्युतभूपसम्बन्धिभिः यशःपयोभिः कीर्तिदुग्धैः
भरितात् पूरितात् ब्रह्माण्डं विध्यण्डमेव भाण्ड: पात्रविशेष: तस्मात्
अङ्कुरणार्थबीजसेचकपात्रादिति भावः । बहिः ऊर्ध्वं उल्लुसद्भिः उद्गतैः
ब्रह्माण्डमभिव्याप्य तद्बहिः प्रविसारिभिरित्यर्थ: । तादृक्षस्य अनिर्वचनीयस्य
निखिलशत्रुनिग्रहकारितया प्रख्यातस्येत्यर्थः । " दृशिर् प्रेक्षणे " इति धातोः
"दृशेः सः " इत्यौणादिके कर्तरि सप्रत्यये "दृक्षे च" इति वार्तिकेन तच्छब्द-
स्याकारातिदेशे तादृक्षः । भुजप्रतापैः बाहुपराक्रमैः कर्तृभिः । भूरि अपरिमितैः नवैः नूतनैः प्रवालैः किसलयैः नवप्रवालात्मनेत्यर्थः । बोभूयते संभूयते। "भू सत्तायाम् " इति धातो: यङन्ताद्भावे लट् । तदीयभुजशौर्य रूपं बीजं तदीयौदार्यादिप्रशंसारूपेण निखिलब्रह्माण्डव्यापिना यशःपयसा समुछ्वसितं सदङ्कुरीभूय ततो नवप्रवालतामभ्येत्य ब्रह्माण्डाद्बहिः प्रसृतमित्यर्थः । अङ्कुरावस्थायामेवैवं