This page has been fully proofread once and needs a second look.

प्रथमस्सर्गः
 
४५
 
८८
 
यशः कीर्तिरित्यपदेशः कपटो यस्यास्तादृश्या सुधया सिताद्रवेण अनुलिप्ते

प्रतिपदविलिप्ते सति लाक्षाद्रवावकाशमन्तरा परिहृत्य लेपिते सतीति भावः
वैजयन्तसौधतया सुधालाक्षालेपावश्यंभावे तस्याभौमतया स्वतस्त- योरसंभवात्
निखिलभूवलयमभित्र्व्याप्योर्ध्वमभिप्रसरता यदीययशसा सुधालेपे नियूंर्व्यूढे
लाक्षालेपपरिशिष्ट इति भावः । प्रतापस्य तेजसः भूमा प्रकर्षः यस्येत्यनुषज्यते ।
प्रवालद्रवेण प्रवालवर्णद्रवेण लाक्षारसेनेत्यर्थः । यद्वा संचूर्णितातिमसृणप्रवाल-
पङ्केनेत्यर्थः । लेपस्य विलेपनस्य भङ्गीं रीतितिं प्राय: प्रायेण अन्तरान्तरेति
भावः । प्रचुरीकरोति विस्तारीकुरुते । प्रवालद्रवलेपबुद्धिं जनयतीति भावः ।
कुम्
" कृभ्वस्तियोगे संपद्यकर्तरि च्वि: " इति अप्रचुरं प्रचुरीकरोतीत्यर्थे च्विप्रत्ययः ।
अन्तरा सुधालेपमभिप्रेत्य प्राय इति । यद्वा प्राय इत्युत्प्रेक्षाद्योतकः । यत्कीर्तिप्र
तापाभ्यां इन्द्रप्रासादो निर्वर्तितसुधालाक्षालेपकर्मा भवतीत्युक्त्या लोकत्रयविख्या-
तत्वं राज्ञः प्रतीयते । अत्र यद्यपि यशःप्रतापयोरन्तरान्तरासन्निवेश प्रतीत्या

किंचिन्न्यूनता प्रतीयते, तथापि यशःपराक्रमयोर्महच्चरितानुवर्णनरूपत्वं

विशेषेण वर्ण्यमानस्य विश्राणनेष्टापूर्तादिरूपत्वे यशस्त्वेन शौर्यशत्रु- निग्रहादि-
रूपत्वे तेजस्त्वेन तच्चरितानुवृत्तेर्न दोष इति मन्तव्यम् । यद्वा क्वचित्प्रासादादौ
लौहित्यविन्यासस्यैव कर्तव्यत्वेऽपि प्रथमं सुधालेपत- दुन्मार्जनमसृणीकरणादिना
धवळीकरणस्याप्यावश्यकतया तद्वदिह सर्वोश एव यशसो व्यापनमनुमतमेव ।
प्रतापव्यापनमित्यर्थे न कोऽपि दोषः । अत्र कीर्तौ तत्त्वमपहूनुत्य तदारोपित-
सुधालेपानुपदप्रवृत्तत्व- निमित्तेन प्रतापव्यापने प्रवालद्रवालेपनतादात्म्यसंभावनाद-
पह्
पहूनुतिगर्भ स्वरूपोत्प्रेक्षा सुधानुलिप्त इति निमित्तोपादानेन प्रायःपदेन भङ्गीमिति

तत्तादात्म्यारोपेण[^1] च प्रतीयते ॥ ३६ ॥
 

अथ तत्सुतमच्युतभूपं दशभिः प्रपञ्चयति-
'

[^2]
अजायतास्मादयमच्युतेन्द्रो मूर्त्यम्बिकायां[^3] महिते मुहूर्ते ।

सामन्तचूडाभुवि केतकीनां सखी यदाज्ञापनचीटिकास्ते ॥ ३७ ॥
 

 
[^
1] The manuscript has तादात्म्यपरेण.
9

[^2]
A, has अजायतार्थात्.
 
s

[^3]
G. अम्बिकाया.