This page has not been fully proofread.

प्रथमस्सर्गः
 
४५
 
८८
 
यशः कीर्तिरित्यपदेशः कपटो यस्यास्तादृश्या सुधया सिताद्रवेण अनुलिप्ते
प्रतिपदविलिप्ते सति लाक्षाद्रवावकाशमन्तरा परिहृत्य लेपिते सतीति भावः ।
वैजयन्तसौधतया सुधालाक्षालेपावश्यंभावे तस्याभौमतया स्वतस्तयोरसंभवात्
निखिलभूवलयमभित्र्याप्योर्ध्वमभिप्रसरता यदीययशसा सुधालेपे नियूंढे
लाक्षालेपपरिशिष्ट इति भावः । प्रतापस्य तेजसः भूमा प्रकर्षः यस्येत्यनुषज्यते ।
प्रवालद्रवेण प्रवालवर्णद्रवेण लाक्षारसेनेत्यर्थः । यद्वा संचूर्णितातिमसृणप्रवाल-
पङ्केनेत्यर्थः । लेपस्य विलेपनस्य भङ्ग रीति प्राय: प्रायेण अन्तरान्तरेति
भावः । प्रचुरीकरोति विस्तारीकुरुते । प्रवालद्रवलेपबुद्धिं जनयतीति भावः ।
कुम्वस्तियोगे पद्यकर्तरि च्वि: " इति अप्रचुरं प्रचुरीकरोतीत्यर्थे च्विप्रत्ययः ।
अन्तरा सुधालेपमभिप्रेत्य प्राय इति । यद्वा प्राय इत्युत्प्रेक्षाद्योतकः । यत्कीर्तिप्र
तापाभ्यां इन्द्रप्रासादो निर्वर्तितसुधालाक्षालेपकर्मा भवतीत्युक्त्या लोकत्रयविख्या-
तत्वं राज्ञः प्रतीयते । अत्र यद्यपि यशःप्रतापयोरन्तरान्तरासन्निवेश प्रतीत्या
किंचिन्यूनता प्रतीयते, तथापि यशःपराक्रमयोर्महच्चरितानुवर्णनरूपत्वं
विशेषेण वर्ण्यमानस्य विश्राणनेष्टापूर्तादिरूपत्वे यशस्त्वेन शौर्यशत्रुनिग्रहादि-
रूपत्वे तेजस्त्वेन तच्चरितानुवृत्तेर्न दोष इति मन्तव्यम् । यद्वा क्वचित्प्रासादादौ
लौहित्यविन्यासस्यैव कर्तव्यत्वेऽपि प्रथमं सुधालेपतदुन्मार्जनमसृणीकरणादिना
धवळीकरणस्याप्यावश्यकतया तद्वदिह सर्वोश एव यशसो व्यापनमनुमतमेव ।
प्रतापव्यापनमित्यर्थे न कोऽपि दोषः । अत्र कीर्तौ तत्त्वमपहनुत्य तदारोपित-
सुधालेपानुपदप्रवृत्तत्वनिमित्तेन प्रतापव्यापने प्रवालद्रवालेपनतादात्म्यसंभावनाद-
पह्नुतिगर्भस्वरूपोत्प्रेक्षा सुधानुलिप्त इति निमित्तोपादानेन प्रायःपदेन भङ्गीमिति
तत्तादात्म्यारोपेण च प्रतीयते ॥ ३६ ॥
 
अथ तत्सुतमच्युतभूपं दशभिः प्रपञ्चयति-
'अजायतास्मादयमच्युतेन्द्रो मूर्त्यम्बिकायां महिते मुहूर्ते ।
सामन्तचूडाभुवि केतकीनां सखी यदाज्ञापनचीटिकास्ते ॥ ३७ ॥
 
1 The manuscript has तादात्म्यपरेण.
9 A has अजायतार्थात्.
 
s G. अम्बिकाया.