This page has been fully proofread once and needs a second look.

अथ तमेव द्वाभ्यां यत्तद्भयामेकान्वयेनाह-

यस्य त्रिलोकीमणिहारयष्टया[^1] मध्ये महानायकभावभाजः ।
कदापि न त्रासकथेति युक्तमत्यद्भुता यातरलत्वशैली ॥ ३५ ॥

यस्येति – त्रिलोकी त्रैलोक्यमेव मणिमयी रत्नमयी हारयष्टि : एकावर्ल
नाम हारवरः । तस्याः मध्ये मध्यभागे महानायकभावं सर्वाधिपत्यम् । अन्यत्रहारमध्यमणित्वम् । "मध्यरत्ने नेतरि नायकः" इत्यमरः[^2] । भजति प्राप्नोतीति तादृशस्य यस्य चिनचेव्वभूपस्य तथाविधस्य रत्नवर्यस्य च त्रासकथा भीतिवार्ता । अन्यत्र त्रासाख्यरत्नदोषप्रस्तावः । न नास्ति इति एवंरूपजनवचनमित्यर्थः । युक्तं अनुरूपं सर्वाभ्युपगमनीयमिति भाव: । त्रैलोक्याधिपत्यधूर्वहस्य कस्माच्चिद्भीतेः दोषलेशविकलस्यैव हारमध्यमणित्वस्य सर्वसिद्धत्वे तथाविधस्य दोषप्रसक्तेश्च दूरापास्तत्वान्नेदं चित्रमिति भावः । या प्रसिद्धा सांप्रतं सर्वजनविदितेत्यर्थः । अतरलत्वशैली विषयलोलताविहीनत्वस्वभावः । अन्यत्र हारमध्यमणिभिन्नत्वस्वभावः । "तरळो हारमध्यगः इत्यमरः । अत्यद्भुता अत्यन्तविस्मयकारिणी
नायकमणित्वभाज एव न तथाविधत्वमिति विरुद्धमिति भावः । राजपक्षे त्रिलोकाधिपत्यभाजो विषयचापलताराहित्यं तु युक्तमेवेति भावः । यत्तदोर्नि त्यसम्बन्धात् स इत्यध्याहार्यम् । स आसीदिति पूर्वेणान्वयः । पादत्रयार्थे समालंकारः । "समं स्याद्वर्णनं यत्र द्वयोरप्यनुरूपयो: " इति लक्षणात् । तुर्य पादे नायकमणिपक्षे प्रसक्तस्य विरोधस्य राजपक्षे परिहाराद्विरोधाभासः । "आभासत्वे विरोधस्य विरोधाभास इष्यते " इति लक्षणात् । द्वयोरेकान्वयितया संसृष्टिः ॥ ३५ ॥

यत्नं विना यस्य यशोपदेशसुधानुलिप्ते सुरनाथसौधे ।
प्राय: प्रवालद्रवलेपभङ्गीं प्रतापभूमा [^3]प्रचुरीकरोति ॥ ३६ ॥

यत्नमिति — सुरनाथस्य इन्द्रस्य सौधे वैजयन्ताख्ये प्रासादे यत्नं विना
प्रयासमन्तरा शर्करासंपादनतदुत्तापनादिश्रमलेशमन्तरेणेति भावः । यस्य राज्ञः
 
[^1] G. यष्ट्यां.
[^2] In the printed editions of the Amarakos'a this extract is not to be traced
[^3] G. प्रकटी.