This page has been fully proofread once and needs a second look.

प्रथमस्सर्गः
 
उपजायतैवेत्यर्थः, इन्द्रेणापि समासादित इति भावः । ततश्च सारस्वतसर्वमर्म-
मर्मवेदिना सकलदेवदैत्याद्यनुल्लङ्ङ्घनीयशासनेन सकलसप्तकोट्यप्सर स्संघादप्यति-
शायिन्या श्रियः संग्रहेण पारिजातसारतरवस्तूपसंग्रहाभिलाषेण
भगवतापि
परिगृहीतात् कौस्तुभादत्यन्तातिशयितश्चिन्तामणिरिन्द्रकृतमुसु चरितपरिपाके नैवोद-
भवत् । न पुनर्भगवतोऽप्यतिशयितप्राभववता मघवता लब्ध: । एवं मत्कृत-
सुकृतपरिपाकवशात् पूर्वतनाशेषकविमनीषाविषयोऽ- प्यर्थ: संपत्स्यत एव ।
यदि त्विन्द्रकृते भगवता कृपावशादवशेषितश्चिन्ता मणिः स्यात्तर्हि मत्कृतेप्य-
द्भुता च परिकल्पनापूर्वैरवशेषिता किं न स्यादिति भावः । अत्र वाक्यद्वये जायेत
जात इति सामान्यधर्मस्य द्विरुपा- दानात् प्रतिवस्तूपमालङ्कारः । " सामान्यस्य
द्विरेकस्य यत्र वाक्यद्वये स्थितिः । इवादेरनुपादाने प्रतिवस्तूपमामः मता ॥" इति
लक्षणात् ॥ ३३ ॥
 

अथानुबन्धचतुष्टयंवत् देशकालप्रतिपत्तेरपि प्रेक्षावत्प्रवृत्तिनिमित्ततया

केवलायास्तस्याश्चमत्कृत्यजनकतया तादात्विके राजन्यभिहिते देशकालप्रतीति:
तिः सुलभेति प्रकृतप्रबन्धरचनाकालिकं राजानं पित्रादिक्रमेण प्रपञ्चायति —–
 
चयति-
आसीदशेषाहित भूमिपालशासी शुनासीरसमप्रभावः ।

तिम्मावनीनायक' {^१} वर्यमाम्बाजन्मासुधर्मा ' [^2] चिनचेव्वभूपः ॥ ३४ ॥
 
"
 

आसीदिति – अशेषान् निखिलान् [आहित] भूमिपालान् [शत्रु ]
पार्थिवान् शास्ति निगृह्णातीति तादृशः शुनासीरस्य इन्द्रस्य प्रभावेन समःम: तुल्यः

प्रभाव:वः ऐश्वर्यं यस्य सः तादृशः । सप्तम्युपमानपूर्वपदस्यबहुव्रीहिः । "वाच्यो

वा चोत्तरपदलोपश्च" इति वार्तिकात् शुनासीर पदोत्तरोपमानवाचकप्रभाव- पद-
लोपः ।
"वृद्धश्रवाश्शुनासीर:रः " इत्यमरः । तिम्मावनीनायक स्तिम्मा- भिधानो
राजा । वर्यमाम्बानाम तन्महिषी ताभ्यां जन्म उत्पत्तिः यस्य स तादृशः । तेन
राजपरंपराजातत्वं व्यज्यते । सु शोभन: सर्वजनाशंसनीय इति यावत्, धर्म:
मः प्रजापालनादिर्यस्य । "धर्मादनिच् केवलात्" इति धर्मशब्दान्तस्य बहुव्रीहेर-
निजादेशे सुधर्मा । नाम्नायं चिनचेञ्चव्वभूपः चिनचेञ्व्वाख्यो राजा आसीत् ।
अस्तेर्लङ् । उपमालङ्कारःर : वृत्त्यनुप्रासेन संसृष्टिः ॥ ३४ ॥
 

 
 
[^1] G. वैय्यमा,
[^
2] G., A. चिनचेप्पभूपः ।
 
2
 
• G. वैय्यमा.