This page has not been fully proofread.

प्रथमस्सर्गः
 
उपजायतैवेत्यर्थः, इन्द्रेणापि समासादित इति भावः । ततश्च सारस्वतसर्वमर्म-
वेदिना सकलदेवदैत्याद्यनुल्लङ्घनीयशासनेन सकलसप्तकोट्यप्सरस्संघादप्यति-
शायिन्या श्रियः संग्रहेण पारिजातसारतरवस्तूपसंग्रहाभिलाषेण भगवतापि
परिगृहीतात् कौस्तुभादत्यन्तातिशयितश्चिन्तामणिरिन्द्रकृतमु चरितपरिपाके नैवोद-
भवत् । न पुनर्भगवतोऽप्यतिशयितप्राभववता मघवता लब्ध: । एवं मत्कृत-
सुकृतपरिपाकवशात् पूर्वतनाशेषकविमनीषाविषयोऽप्यर्थ: संपत्स्यत एव ।
यदि त्विन्द्रकृते भगवता कृपावशादवशेषितश्चिन्तामणिः स्यात्तर्हि मत्कृतेप्य-
द्भुता च परिकल्पनापूर्वैरवशेषिता किं न स्यादिति भावः । अत्र वाक्यद्वये जायेत
जात इति सामान्यधर्मस्य द्विरुपादानात् प्रतिवस्तूपमालङ्कारः । "सामान्यस्य
द्विरेकस्य यत्र वाक्यद्वये स्थितिः । इवादेरनुपादाने प्रतिवस्तूपमा मता ॥" इति
लक्षणात् ॥ ३३ ॥
 
अथानुबन्धचतुष्टयंवत् देशकालप्रतिपत्तेरपि प्रेक्षावत्प्रवृत्तिनिमित्ततया
केवलायास्तस्याश्चमत्कृत्यजनकतया तादात्विके राजन्यभिहिते देशकालप्रतीति:
सुलभेति प्रकृतप्रबन्धरचनाकालिकं राजानं पित्रादिक्रमेण प्रपञ्चायति —–
 
आसीदशेषाहित भूमिपालशासी शुनासीरसमप्रभावः ।
तिम्मावनीनायक'वर्यमाम्बाजन्मासुधर्मा 'चिनचेव्वभूपः ॥ ३४ ॥
 
"
 
आसीदिति – अशेषान् निखिलान् [आहित] भूमिपालान् [शत्रु]
पार्थिवान् शास्ति निगृह्णातीति तादृशः शुनासीरस्य इन्द्रस्य प्रभावेन समः तुल्यः
प्रभाव: ऐश्वर्य यस्य सः तादृशः । सप्तम्युपमानपूर्वपदस्यबहुव्रीहिः । "वाच्यो
वा चोत्तरपदलोपश्च" इति वार्तिकात शुनासीर पदोत्तरोपमानवाचकप्रभावपद-
लोपः ।
वृद्धश्रवारशुनासीर: इत्यमरः । तिम्मावनीनायक स्तिम्माभिधानो
राजा । वर्यमाम्बानाम तन्महिषी ताभ्यां जन्म उत्पत्तिः यस्य स तादृशः । तेन
राजपरंपराजातत्वं व्यज्यते । सु शोभन: सर्वजनाशंसनीय इति यावत्, धर्म:
प्रजापालनादिर्यस्य । "धर्मादनिच् केवलात्" इति धर्मशब्दान्तस्य बहुव्रीहेर-
निजादेशे सुधर्मा । नाम्नायं चिनचेञ्चभूपः चिनचेञ्वाख्यो राजा आसीत् ।
अस्तेर्लङ् । उपमालङ्कारः वृत्त्यनुप्रासेन संसृष्टिः ॥ ३४ ॥
 
2 G., A. चिनचेप्पभूपः ।
 
2
 
• G. वैय्यमा.