2023-04-09 16:39:59 by jayusudindra
This page has been fully proofread once and needs a second look.
पुनः पूर्वतनकविगोचरतामनापन्नया तदतिशायिन्या भवितव्यमन्यथा चर्वितचर्वणरूपतया अलंबुध्या च सहृदयहृदयाह्लादः प्रेक्षावतां प्रवृत्तिश्च न भवेदेव सर्वपूर्वकविभिरनुद्भावितस्तदतिशायी चेहत्योऽर्थ इत्येतदप्य संभावितमेव पूर्वेषां काळिदासादीनां सर्वज्ञत्वादानन्त्याच्चेत्याशङ्कां मनसि निधाय सर्वपूर्वकविचर्वणागोचरस्तदतिशाय्येवार्थ इह निबध्यत इति सदृष्टान्तमाह-
क्षुण्णेऽपिसाहित्यपथे कवीन्द्रैः पुण्येन जायेत नवार्थसृष्टि ।
किं पद्मनाभाहृतकौस्तुभेऽपि चिन्तामणिस्सिन्धुपतौ न जातः ॥ ३२ ॥
क्षुण्ण इति - साहित्यपथे सारस्वतमार्गे । "ऋक्पूरब्धूः पथामानक्षे" इत्य-
प्रत्ययः । कवीन्द्रैः कविश्रेष्ठैः क्षुण्णे मृदिते सत्यपि; मृदितत्वं च साहित्य- पदव्या बहुतरजनपदनिरन्तरनिक्षेपनिंर्मृष्टतृणगुल्मादितया विस्तरीभूततया च सर्वेषां सुखवेद्यत्ववत् सारस्वतमर्मसर्वस्वोद्धाटनेन सर्ववेद्यत्वम्, तस्य चार्थस्य पूर्वैरेव निर्व्यूढत्वादिति भावः । पुण्येन सुचरितेन पूर्वार्जित सुकृतपरिपाकेन मदीयेनेति भावः । तेन स्वस्य पूर्वातिशायिप्रतिभादिमत्तया गर्वातिशयो निरस्यते । नवा नूतना अन्यैरनाघ्रातपूर्वेति भावः । अर्थस्य उत्प्रेक्षादिविषयस्य सृष्टि: कल्पना जायेत संपद्येत संपत्स्यत एवेत्यर्थः । तेनात्रत्यस्य सर्वस्यार्थस्यादृष्टचरतया नानुपादेयत्वसंभावना भवेदिति व्यज्यते । तर्हि वाल्मीकिकालिदासादीनामल्पज्ञत्वं प्रसज्येतेत्यमुमर्थं दृष्टान्तेन समर्थयन्नाह । किमिति पद्मं नाभौ यस्य तेन तेन च क्षीरोदश- यनावस्था व्यज्यते । तेन च तत्रत्यसारासारसकलवस्तुविवेचकत्वसर्व- स्वतन्त्रत्वादयो व्यज्यन्ते । तादृशेन भगवता आहृतः स्वयमेव परिगृहीतः
न तु केनचिद्दत्तोनुमतो वा । कौस्तुभ: कौस्तुभाख्यः सर्वातिशायी मणि- विशेषः यस्मात्तादृशेऽपि सारांशग्रहणेन निस्सारीकृततयावभासमानेऽपीति भावः । सिन्धुपतौ क्षीरसागरे । चिन्तामणि : चिन्तापूरको मणि: । शाक- पार्थिवादित्वात्समास: । [^1] जनपरिचिन्तनमात्रादेव सकलाभीष्टप्रदत्वेन प्रख्यात इति भावः । तेन प्रकाशमात्रफलकात् कौस्तुभादाधिक्यं व्यज्यते । न जातः किं नाजनिष्टकिम् ।
[^1] The manuscript has अर्थं before जनपरिचित etc., but it seems to be a mistake.