This page has not been fully proofread.

४२
 
रुक्मिणीकल्याणे सव्याख्याने.
 
पुनः पूर्वतनकविगोचरतामनापन्नया तदतिशायिन्या भवितव्यमन्यथा चर्वित-
चर्वणरूपतया अलंबुध्या च सहृदयहृदयाह्लादः प्रेक्षावतां प्रवृत्तिश्च न भवेदेव
सर्वपूर्वकविभिरनुद्भावितस्तदतिशायी चेहत्योऽर्थ इत्येतदप्यसंभावितमेव पूर्वेषां
काळिदासादीनां सर्वज्ञत्वादानन्त्याच्चेत्याशङ्कां मनसि निधाय सर्वपूर्वक विचर्वणा-
गोचरस्तदतिशाय्येवार्थ इह निबध्यत इति सदृष्टान्तमाह -
 
क्षुण्णेऽपिसाहित्यपथे कवीन्द्रैः पुण्येन जायेत नवार्थसृष्टि ।
कि पद्मनाभाहृतकौस्तुभेऽपि चिन्तामणिस्सिन्धुपतौ न जातः ॥
 
-
 
"
 
क्षुण्ण इति - साहित्यपथे सारस्वतमार्गे । "ऋपूरब्धू: पथामानक्षे" इत्य-
प्रत्ययः। कवीन्द्रैः कविश्रेष्ठैः क्षुण्णे मृदिते सत्यपि; मृदितत्वं च साहित्यपदव्या
बहुतर जनपदनिरन्तर निक्षेप निर्मृष्टतृणगुल्मादितया विस्तरीभूततया च सर्वेषां सुख-
वेद्यत्ववत् सारस्वतमर्मसर्वस्वोद्घाटनेन सर्वत्रेद्यत्वम् तस्य चार्थस्य पूर्वै रेव
निर्व्यूढत्वादिति भावः । पुण्येन सुचरितेन पूर्वार्जितसुकृत परिपाकेन मदीयेनेति
भावः । तेन स्वस्य पूर्वातिशायिप्रतिभादिमत्तया गर्वातिशयो निरस्यते । नवा
नूतना अन्यैर नाघ्रातपूर्वेति भावः । अर्थस्य उत्प्रेक्षा दिविषयस्य सृष्टि: कल्पना
जायेत संपद्येत संपत्स्यत एवेत्यर्थः । तेनात्रत्यस्य सर्वस्यार्थस्यादृष्टचरतया
नानुपादेयत्वसंभावना भवेदिति व्यज्यते । तर्हि वाल्मीकिकालिदासादी नामल्प-
इत्वं प्रसज्येतेल्यमुमर्थ दृष्टान्तेन समर्थयन्नाह । किमिति पद्मं नाभौ यस्य तेन तेन
च क्षीरोदशयनावस्था व्यज्यते । तेन च तत्रत्यसारासारसकलवस्तुविवेचकत्व-
सर्वस्वतन्त्रत्वादयो व्यज्यन्ते । तादृशेन भगवता आहृतः स्वयमेव परिगृहीतः
न तु केनचिद्दत्तोनुमतो वा । कौस्तुभ: कौस्तुभाख्यः सर्वातिशायी मणिविशेषः
यस्मात्तादृशेऽपि सारांशग्रहणेन निस्सारीकृततयावभासमानेऽपीति भावः ।
सिन्धुपतौ क्षीरसागरे । चिन्तामणिः चिन्तापूरको मणिः । शाकपार्थिवादित्वात्स-
मासः। 'जनपरिचिन्तनमात्रादेव सकलाभीष्टप्रदत्वेन प्रख्यात इति भावः ।
तेन प्रकाशमात्रफलकात् कौस्तुभादाधिक्यं व्यज्यते । न जातः किं नाजनिष्टकिम् ।
 
.
 
1 The manuscript has before aufifa etc., but it seems to
be a mistake.