2023-04-09 16:40:25 by jayusudindra
This page has been fully proofread once and needs a second look.
हरेरिति — वयं मादृशाः । "जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्"
इति जात्यभिप्रायेण बहुवचनप्रयोग: ; मन्मुखा ब्रह्मादय: सर्वेपि कवय इत्यर्थः । निखिलगुणकीर्तनाशक्तिः सर्वसाधारण्येवेति भावः, तेन नात्मस्तुतिशङ्का । अपारे पाररहिते वाङ्मनसयोरविषय इति यावत् । तेन प्रसिद्धसागरा द्वयतिरेको व्यज्यते । हरेः श्रीकृष्णस्य गुणा एव वारीणि, तेषां राशौ उदधौ अपरिमेयगुणराशावित्यर्थः । कणं लेशं गृणन्तः उदीर- यन्तोऽपि । पिबन्तो वेति पाठेप्ययमेवार्थः। कृतार्था: कृतकृत्याः जन्म- साफल्यं प्राप्ता इति भावः । भवेमेति शेषः । अस्माभिः स्वस्वबुध्यनुसारेण यावत् स्वशक्तितो वर्ण्यमानत्वेऽपि तदीयकल्याणगुणराशिकोटिकोट्यं- शोपि वर्णितो न भवेदथापि यत्किञ्चित् गुणकथनमेवास्माकं संपूर्ण-
श्रेयस्साधनपर्याप्तं भवतीति भावः । अमुमेवार्थं दृष्टान्तेन साधयति । हि यस्मात् घना जलधराः सिन्धोः सागरात् कियन्ति कतिपयानि पयसां उदकानां पृषन्ति कणानेवेत्यर्थः । गृहीत्वा पीत्वेत्यर्थ: । घनाः सान्द्राः स्वाभीष्टसाधनक्षमसलिलसंपन्ना इति भावः । " घनं निरन्तरं सान्द्रम्" इत्यमरः । भवन्ति जायन्ते । भवतेः कर्तरि लट् । अद्यापि तादृशतया दृश्यन्त एवेति भावः । अपरिमेयवारिराशेरल्पतरवारिसंग्रहमात्रेणापि वारिदास्तेनैव निखिलजगदाप्लावनपर्याप्ता: क्रमात् स्वोत्सृष्टसलिल- पूरोत्कूलितातिविकटतटिनीकोटिभिः सागरस्यापि पूरका भवन्तीति
दृष्टमेव । एवमहमपि यत्किञ्चित् भगवद्गुणकथनप्रभावादवाप्त- निखिलकामः सकलजगदुपलालितो भगवद्विषयविनियोजितनिजविद्या- विलासश्च भवेयमेवेति भावः । अत्र कविघनयोरिव हरिसागरयोर्गुण- वारिणोर्गृणनग्रहणयोश्च विम्बप्रतिबिम्बभावो दृष्टान्तालङ्कारः । न च हेतुबोधकहिशब्देन समर्थनसापेक्षार्थसमर्थनरूपतया काव्यलिङ्गमेवेति वाच्यम् । काव्यलिङ्गस्यार्थान्तरन्यासस्य च दृष्टान्तप्रतिवस्तूपमाभ्यां विविक्तविषयतया दृष्टान्तप्रतिवस्तूपमयोश्च सर्वत्र समर्थनरूपतया काव्यलिङ्गार्थान्तरन्याससंकलिततया "सावकाशनिरवकाशयोर्मध्ये निरव-
काशं वलीयः " इति न्यायेन दृष्टान्तप्रतिवस्तूपमयोरेव बलवत्तया निरव- काशस्यैव दृष्टान्तस्यैवेह वक्तव्यत्वादित्यलं प्रसक्तानुप्रसक्तिकया ॥ ३२ ॥
नन्वस्तु भगवद्गुणवर्णनं नामसंकीर्तनवत् सुकृतसाधनम् ; तावतास्य ग्रन्थस्य न हि सर्वोपादेयतापि स्यात् । सा पुनश्चमत्कृतार्थकल्पनायामेव स्यात् । तया