This page has been fully proofread once and needs a second look.

प्रथमस्सर्ग:
 
हरेरिति वयं मादृशाः । "जात्याख्यायामे कस्मिन्बहुवचनमन्यतरस्याम्"

इति जात्यभिप्रायेण बहुवचनप्रयोगःग: ; मन्मुखा ब्रह्मादयःय: सर्वेपि कवय इत्यर्थः ।
निखिलगुणकीर्तनाशक्तिः सर्वसाधारण्येवेति भावः, तेन नात्मस्तुतिशङ्का ।
अपारे पाररहिते वाङ्मनसयोरविषय इति यावत् । तेन प्रसिद्धसागरा द्वयतिरेको
व्यज्यते । हरेः श्रीकृष्णस्य गुणा एव वारीणि, तेषां राशौ उदधौंधौ अपरिमेय गुण -
राशाविल्त्यर्थः । कणं लेशं गृणन्तः उदीर- यन्तोऽपि । पिबन्तो वेति पाठेप्ययमेवार्थः।
कृतार्थाःथा: कृतकृत्याः जन्म- साफल्यं प्राप्ता इति भावः । भवेमेति शेषः । अस्माभिः
स्वस्वबुध्यनुसारेण यावत् स्वशक्तितो वण्र्ण्यमानत्वेऽपि तदीयकल्याणगुणराशि-
कोटिकोट्यं- शोपि वर्गिणितो न भवेदयाथापि यत्किञ्चित् गुणकथनमेवास्माकं संपूर्ण-

श्रेयस्साधनपर्याप्तं भवतीति भावः । अमुमेवार्थं दृष्टान्तेन सायति । हि यस्मात्
घना जलधराः सिन्धोः सागरात् कियन्ति कतिपयानि पयसां उदकानां पृषन्ति
कणानेवेत्यर्थः । गृहीत्वा पीत्वेत्यर्थःथ: । घनाः सान्द्राः स्वाभीष्टसाधनक्षमसलिल-
संपन्ना इति भावः । " नं निरन्तरं सान्द्रम्" इत्यमरः । भवन्ति जायन्ते । भवते:
तेः कर्तरि लट् । अद्यापि तादृशतया दृश्यन्त एवेति भावः । अपरिमेयवारिराशे
रल्पतरवारिसंग्रहमात्रेणापि वारिदास्तेनैव निखिलजगदाप्लावनपर्याप्ता: क्रमात्
स्वोत्सृष्टसलिल- पूरोत्कूलितातिविकटतटिनीकोटिभिः सागरस्यापि पूरका भवन्तीति

दृष्टमेव । एवमहमपि यत्किञ्चित् भगवद्गुणकथनप्रभावादवाप्त- निखिलकामः
सकलजगदुपलालितो भगवद्विषयविनियोजितनिजविद्या- विलासश्च भवेयमेवेति
भावः । अत्र कविघनयोरिव हरिसागरयोर्गुण- वारिणोर्गृणनग्रहणयोश्च विम्त्रप्रति-
बप्रतिबिम्बभावो दृष्टान्तालङ्कारः । न च हेतुबोधकहिशब्देन समर्थनसापेक्षार्थसमर्थन-
रूपतया काव्यलिङ्गमेवेति वाच्यम् । काव्यलिङ्गस्यार्थान्तरन्यासस्य च दृष्टान्त-
प्रतिवस्तूपमाभ्यां विविक्तविषयतया दृष्टान्तप्रतिवस्तूपमयोश्च सर्वत्र समर्थनरूप-
-
तया काव्यलिङ्गार्थान्तरन्याससंकलिततया "सावकाशनिरवकाशयोर्मध्ये निरव-

काशं लीयः " इति न्यायेन दृष्टान्तप्रतिवस्तूपमयोरेव बलवत्तया निरव- काशस्यैव
दृष्टान्तस्यैवेह वक्तञ्व्यत्वादित्यलं प्रसक्तानुप्रसक्तिकया ॥ ३२ ॥
 

नन्वस्तु भगवद्गुणवर्णनं नामसंकीर्तनवत् सुकृतसाधनम् ; तावतास्य ग्रन्थस्य
न हि सर्वोपादेयतापि स्यात् । सा पुनश्चमत्कृतार्थकल्पनायामेव स्यात् । तया
 
6
 
४१