2023-04-09 16:38:56 by jayusudindra
This page has been fully proofread once and needs a second look.
श्रीकृष्णस्य । तदुक्तं विष्णुपुराणे -- " स एव वासुदेवोऽयं साक्षात्पुरुष उच्यते । स्त्रीप्रायमितरत्सर्वं जगदेतच्चराचरम् " इति ॥ चरित्रस्य रुक्मिणी परिणयनादिरूपस्य संकीर्तनं कथनमेव भाग्यं भागधेयं ; तत्र लोभात् औत्सुक्यात् भगवद्गुणकीर्तनस्य भाग्यत्वरूपणात् तदितरनैस्पृह्यं व्यज्यते। साहित्यस्य सिन्धुः कवितार्णवं सहसा सत्वरं साध्यासाध्यविचार- मन्तरेत्यर्थः । भूयिष्ठधनार्थिनां "न साहसमनारुह्य नरो भद्राणि पश्यति" इति न्यायेन द्वीपान्तरेभ्यो धनाहरणाय समुद्रयात्राया दृष्टचरत्वेऽपि तरण- साधनतरिकस्य धारादिकमनपेक्ष्यैवेति भावः । तितीर्षोः तर्तुमिच्छोः यथाभि मतमभिमतप्रबन्धपरिपूर्तिकामस्येति भावः । परमपुरुषार्थभूतमोक्ष- निर्वाहस्य भगवच्चरितोपवर्णनस्य कैमुत्यन्यायेन नान्तरीयकग्रन्थान्तराय निरासपूर्वकप्रकृतप्रबन्धपरिसमाप्त्याद्यैहिकफलावाप्तिसाधनत्वं न विहन्यत इति भावः । ईदृशस्य मम मे तत्कटाक्षः तस्य वर्णनीयस्यैव कृष्णस्य कटाक्षः सानुग्रहापाङ्गवीक्षणं सांयात्रिक: कर्णधार : स्यात् । "अस भुवि " इति धातोराशिषि, लिङ् । अत्र भगवतः तत्पदेनोपादानात् स्वीयां चरितोपवर्णनप्रतिहतिं स्वयं किमर्षयेत् न मर्षयेदिति व्यज्यते । तेन च यथा हि बहुधनादिकामः सांयात्रिकसहायमासाद्यार्णवतरणपूर्वकमखिलम- प्यभीष्टमवाप्नोत्येवमहमपि भगवत्कटाक्षमहिम्ना प्रतिभादिशक्तिं प्रतिबन्धक निवृत्तिं प्रकृतग्रन्थपरिपूर्तिं च लभेयमेवेति च व्यज्यते । इत्थं च "पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् " इति स्मृत्या भगवच्चरितवर्णनात्मक- स्यास्यैव प्रबन्धस्य स्वतः परममङ्गलतया विनायकप्पूजायां तदन्तराय निवर्तकतत्पूजानपेक्षणवत् इतो मङ्गलान्तरमकिञ्चित्करमिति मत्वा स्वाचरितमङ्गलानां शिरस्यस्य निवेशनं पद्यादौ पवित्रपदसञ्चिन्तनमिति च मन्तव्यम् । समस्तवस्तुविषयकं सावयवरूपकमलङ्कारः ॥३१॥
नन्वस्तु भगवच्चरितवर्णनस्य परमाशागोचरत्वम्, अथापि ब्रह्मादीनामप्य-
[^1]वाङ्मनसगोचराणामनन्तानन्तगुणानां कथं भवदुपवर्ण्यत्वं संभवेदित्यत आह—
हरेरपारे गुणवारिराशौ कणं [^2] गृणन्तोऽपि वयं कृतार्थाः ।
पृषन्ति सिन्धोः पयसां [^3] कियन्ति घना [^4]गृहीत्वा हि घना भवन्ति ॥ ३२ ॥
[^1] The original has अवाचमनस but it is probably a scribal error.
[^2] A. पिबन्तो.
[^3] G. पयसा
[^4] G. गृहीत्वाति घनाः.
नन्वस्तु भगवच्चरितवर्णनस्य परमाशागोचरत्वम्, अथापि ब्रह्मादीनामप्य-
[^1]वाङ्मनसगोचराणामनन्तानन्तगुणानां कथं भवदुपवर्ण्यत्वं संभवेदित्यत आह—
हरेरपारे गुणवारिराशौ कणं [^2] गृणन्तोऽपि वयं कृतार्थाः ।
पृषन्ति सिन्धोः पयसां [^3] कियन्ति घना [^4]गृहीत्वा हि घना भवन्ति ॥ ३२ ॥
[^1] The original has अवाचमनस but it is probably a scribal error.
[^2] A. पिबन्तो.
[^3] G. पयसा
[^4] G. गृहीत्वाति घनाः.