This page has not been fully proofread.

४०
 
रुक्मिणीकल्याणे सव्याख्याने
 
61
 
श्रीकृष्णस्य । तदुक्तं विष्णुपुराणे -- " स एव वासुदेवोऽयं साक्षात्पुरुष उच्यते ।
स्त्रीप्रायमितरत्सर्वं जगदेतच्चराचरम् " इति ॥ चरित्रस्य रुक्मिणीपरिणयनादिरूपस्य
संकीर्तनं कथनमेव भाग्यं भागधेयं ; तत्र लोभात् औत्सुक्यात् भगवद्गुणकीर्तनस्य
भाग्यत्वरूपणात् तदितरनैस्पृह्यं व्यज्यते । साहित्यस्य सिन्धुः कवितार्णवं सहसा
सत्वरं साध्यासाध्यविचारमन्तरेत्यर्थः । भूयिष्ठवनार्थिनां "न साहसमनारुह्य
नरो भद्राणि पश्यति" इति न्यायेन द्वीपान्तरेभ्यो धनाहरणाय समुद्रयात्राया
दृष्टचरत्वेऽपि तरणसाधनतरिकस्य धारादिकमनपेक्ष्यैवेति भावः । तितीर्षोः
तर्तुमिच्छोः यथाभिमतमभिमतप्रबन्धपरिपूर्तिकामस्येति भावः । परमपुरुषार्थ-
भूतमोक्षनिर्वाहस्य भगवच्चरितोपवर्णनस्य कैमुत्यन्यायेन नान्तरीयकग्रन्थान्तराय-
निरासपूर्वकप्रकृतप्रबन्धपरिसमाप्त्याद्यैहिक फलावाप्तिसाधनत्वं न विहन्यत इति
भावः । ईदृशस्य मम मे तत्कटाक्षः तस्य वर्णनीयस्यैव कृष्णस्य कटाक्षः सानु -
ग्रहापाङ्गवीक्षणं सांयात्रिक: कर्णधार: स्यात् । "अस भुवि " इति धातोराशिषि
लिङ् । अत्र भगवतः तत्पदेनोपादानात् स्वीयां चरितोपवर्णनप्रतिहतिं स्वयं किं
मर्षयेत् न मर्षयेदिति व्यज्यते । तेन च यथा हि बहुधनादिकामः
सांयात्रिकसहायमासाद्यार्णवतरणपूर्वक मखिलमप्य भीष्टमवाप्नोत्येवमहमपि भगव -
त्कटाक्षमहिम्ना प्रतिभादिशक्ति प्रतिबन्धकनिवृत्ति प्रकृतग्रन्थपरिपूर्ति च लभेय-
मेवेति च व्यज्यते । इत्थं च " पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्"
इति स्मृत्या भगवच्चरितवर्णनात्मकस्यास्यैव प्रबन्धस्य स्वतः परममङ्गलतया
विनायकपूजायां तदन्तरायनिवर्तकतत्पूजानपेक्षणवत् इतो मङ्गलान्तरमकिञ्चि-
त्करमिति मत्वा स्वाचरितमङ्गलानां शिरस्यस्य निवेशनं पद्यादौ पवित्रपद-
सञ्चिन्तनमिति च मन्तव्यम् । समस्तवस्तुविषयकं सावयबरूपकमलङ्कारः ॥३१॥
नन्वस्तु भगवच्चरितवर्णनस्य परमाशागोचरत्वम्, अथापि ब्रह्मादीनामप्य-
`वाङ्मनसगोचराणामनन्तानन्तगुणानां कथं भवदुपवर्ण्यत्वं संभवेदित्यत आह
 
८८
 
हरेरपारे गुणवारिराशौ कणं गृणन्तोऽपि वयं कृतार्थाः ।
 
पृषन्ति सिन्धोः पयसां कियन्ति घना गृहीत्वा हि घना भवन्ति ॥
 
2
 
The original has but it is probably a scribal error.
9 A, पिबन्तो.
 
.3 G. पयसा.
 
4 G. गृहीत्वाति घनाः.