This page has been fully proofread once and needs a second look.

प्रथमस्सर्गः
 
अथ प्रसङ्गात् विदुषां सहृदयानां च स्वकाव्योत्कर्षनिर्वाहकाणां

क्षेममाशास्ते-
३७
 
-
 

निकष्य मेधानिकषोपलेषु सुवर्णतत्त्वं [^1] परिशोधयन्तः ।

अलंक्रियार्थीथं सुदृशामवन्यां कामं कलादास्सुखिनो भवन्तु ॥ २८ ॥
निकष्येति – अवन्यां भूमौ । कला : विद्याःया: साहिती: स्वीयाः परकीयाश्च

ददति शिष्येभ्यः प्रयच्छन्ति ; आददति विजानन्तीति वा विद्वांसः सहृदयाश्च ।

अन्यत्र कला: कनकोत्कर्षापकर्षनिमित्तभूता वर्णापरनामान: ता: आददति

निकषोपले रेखाकारेण संगृह्णन्ति । विजानन्तीति वा स्वर्णकारा वणिजो वा
सुष्ठुटु पश्यन्तीति सुदृशः। गुणदोषावगमनसमर्थाः पण्डिताः सणादिरचनार्थम् । मेधा प्रतिभैव निकषोपलाः शाणोपलाः तेषु निकष्य हृदयाः। तेषां अलं-
क्रियार्थीथं भूषणार्थीथं सहृदयाह्लादाय कवेस्तत्सूक्तीनां वा अनुमोदाय च । अन्यत्र
सुदृशां कामिनीनां अलंक्रियार्थं केयूराङ्गदकङ्कणादिरचनार्थम् । मेधा प्रतिभैव
निकषोपला: शाणोपलाः तेषु निकष्य
उद्धृघृष्य प्रज्ञया परिचिन्त्येति भावः ।
सुशोभनानां, अर्थतः शब्दतश्च । मधुराणां वर्णानां अक्षराणाम् । अन्यत्र सुवर्णानां
कनकानां तत्त्वं सगुणत्वनिर्गुणत्वादि स्वरूपम् । अन्यत्रापाततः स्वर्णवत्प्रतीय-
मानेभ्यः त्रपुप्रभृतिभ्यो विशेषं परिशोधयन्तः विचारयन्तः प्रपञ्चयन्तश्च सन्तः
कामं अत्यन्तं सुखिनः कुशलिन: भवन्तु सन्तु निवसन्त्विति यावत् । भवतेरा-
शिषि लोट् । अस्मत्कवितोपलालनं तद्दूषकदुर्जननिरसनं च मा भूत् । तादृशाः

कलादाः परं भूमौ निवसन्तु । तावतैवास्मदभीष्टसिद्धिः स्वयमेव संपत्स्यत इति
भावः । श्लेषानुप्राणितं सावयवं रूपकमलंकारः ॥ २८ ॥
 

अथ लोकोपकारिणः साधुजनानभिष्टौति -
 

राज्ञः प्रसादं विरचय्य शश्वदक्रूङ्कूरयन्तीकुमुदानुकूल्यम् ।

समादधाना बहुधान्यवृद्धिं सतां सभा भाति शरन्निकाशा ॥ २९॥

राज्ञ इति ~ सतां साधूनां विदितवेदितव्यानां अखिलदयाद्यष्टगुणसंपन्नाना-

मिति भावः । सभा समाजःज : राज्ञो नृपस्य प्रसादं चित्तनैर्मल्यं सर्वभूतानु कंपामिति

 
[^
1 ]G. र्ण्यमत्त्वं ।