This page has been fully proofread once and needs a second look.

३६
 
रुक्मिणीकल्याणे सव्याख्याने
 
दर्श घातयन्ति । एवं दुर्जना दुष्कवयश्च राजभिर्विपश्चिद्भिश्च दूरतो निर्वास्या

इत्युपमालंकारध्वनिः ॥ २६ ॥
 

इत्थं दुर्जनैः स्वग्रन्थस्य निन्द्यतामुद्भाव्य तद्विधिक्कृतिमप्युक्त्वा अविद्यमान -

दोषोद्भावनमकिञ्चित्करं प्रत्युत दुर्जनोद्भावितदोषस्य सत्यत्वासत्यत्व- विचाराय
स्वग्रन्थमालोचयतां सहृदयानां दोषासत्यत्वप्रतिभानपूर्वमत्रत्य गुणानामेव बहूनां
स्फोरकतया श्लाघापर्यवसाय्येवेति
श्लाघापर्यवसाय्येवेति
दुर्जनदूषणमपेक्षणीय मेवेति पूर्वोक्तमाक्षिपति-
माक्षिपति-

विशृङ्खलानां ' [^1]विततिः खलानां कामं करोतु क्षतिमत्र काव्ये ।

शाणोपलाघर्षणतः समिन्धे सैरभ्यसंपन्ननु चन्दनस्य ॥ २७ ॥
 
विशृङ्खलानामिति — विगता शृङ्खलाबन्धः मर्यादेति यावत् । येषां तादृशानां
लज्जामाना दिबहिर्भूतानामुद्वृत्तानामिति भावः । खलानां दुर्जनानां विततिः
संहतिः । अत्र काव्ये कर्तव्यतया निश्चितेस्मिन् रुक्मिणी कल्याणाख्ये प्रबन्धे क्षति
तिं दोषारोपं कामं करोतु सुतरां विधत्तां आपाततोऽ- निष्टमपीदमालोच्यमानमिष्टमेव,
अतो विधत्तामिति भावः । "अकामानुमतौ कामम्" इत्यमरः । करोतेर्लोट् ।
विततिरित्युक्त्या संघीभूय दूषयन्तु । न तेनास्य विहतिः प्रत्युत प्रामुगुक्तविधया-
श्लाघापर्यवसानेन दूषणमप्य- पेक्षणीयमेवेति भावः । अमुमेवार्थं दृष्टान्तेन समर्थ-
यन्नाह – चन्दनस्य चन्दनकाष्स्य । शाणोपले निकषदृषदि । आसमन्तात् घर्ष-
णतः कर्षणात् सौरभ्यस्य परिमळस्य संपत् श्रीः अतिशयितं सौरभ्यमित्यर्थः ।
समिन्धे ननु समेधते खलु । संपूर्वात् "इन्ध दीप्तौ " इति धातोरात्मनेपदे लट् ।
चन्दन खण्डस्य शाणकर्षणं स्वतो दृढतयाऽल्पप्रसरणस्य तदीयगन्धस्य बहु-

प्रसरणफलायैव खलु भवति न पुनस्तद्दूषणाय तद्वदिहाप्यापातदृष्टिकृतां सहृदयानां
दुर्जनोद्भावितदोषविचाराय गाढावगाहनकृतामत्रत्यरसभावगुणा लंकारादीनामुल्लसने
काव्यमिदमखिलोपलालनीयमेव भवेदिति भावः । दृष्टान्तालंकारःर: । पूर्वैकवाक्य-
त्वे त्वाक्षेपोऽपि पूर्वार्धे अनिष्टाभ्युपगमरूपा- नुज्ञयानुगृहीतार्थस्य दृष्टान्तेन समर्थ-
नादनुज्ञानुप्राणितो दृष्टान्तालङ्कार इति केचित् । दृष्टान्तानुप्राणितैवानुज्ञेत्यपरे ॥

 
 
[^
1 G.] विमतिः.
 
"