This page has not been fully proofread.

३६
 
रुक्मिणीकल्याणे सव्याख्याने
 
दर्श घातयन्ति । एवं दुर्जना दुष्कवयश्च राजभिर्विपश्चिद्भिश्च दूरतो निर्वास्या
इत्युपमालंकारध्वनिः ॥ २६ ॥
 
इत्थं दुर्जनैः स्वग्रन्थस्य निन्द्यतामुद्भाव्य तद्विक्कृतिमप्युक्त्वा अविद्यमान-
दोषोद्भावनमकिञ्चित्करं प्रत्युत दुर्जनोद्भावितदोषस्य सत्यत्वासत्यत्वविचाराय
स्वग्रन्थमालोचयतां सहृदयानां दोषासत्यत्वप्रतिभानपूर्वमत्रत्यगुणानामेव बहूनां
स्फोरकतया श्लाघापर्यवसाय्येवेति
श्लाघापर्यवसाय्येवेति दुर्जनदूषणमपेक्षणीयमेवेति पूर्वोक्त-
माक्षिपति-
विशृङ्खलानां 'विततिः खलानां कामं करोतु क्षतिमत्र काव्ये ।
शाणोपलाघर्षणतः समिन्धे सैरभ्यसंपन्ननु चन्दनस्य ॥ २७ ॥
 
विशृङ्खलानामिति — विगता शृङ्खलाबन्धः मर्यादेति यावत् । येषां तादृशानां
लज्जामाना दिबहिर्भूतानामुद्वृत्तानामिति भावः । खलानां दुर्जनानां विततिः
संहतिः । अत्र काव्ये कर्तव्यतया निश्चितेस्मिन् रुक्मिणीकल्याणाख्ये प्रबन्धे क्षति
दोषारोपं कामं करोतु सुतरां विधत्तां आपाततोऽनिष्टमपीदमालोच्यमानमिष्टमेव,
अतो विधत्तामिति भावः । "अकामानुमतौ कामम्" इत्यमरः । करोतेर्लोट् ।
विततिरित्युक्त्या संघीभूय दूषयन्तु । न तेनास्य विहतिः प्रत्युत प्रामुक्तविधया-
श्लाघापर्यवसानेन दूषणमप्यपेक्षणीयमेवेति भावः । अमुमेवार्थ दृष्टान्तेन समर्थ-
यन्नाह – चन्दनस्य चन्दनकाष्ठस्य । शाणोपले निकषदृषदि । आसमन्तात् घर्ष-
णतः कर्षणात् सौरभ्यस्य परिमळस्य संपत् श्रीः अतिशयितं सौरभ्यमित्यर्थः ।
समिन्धे ननु समेधते खलु । संपूर्वात् "इन्ध दीप्तौ " इति धातोरात्मनेपदे लट् ।
चन्दनखण्डस्य शाणकर्षणं स्वतो दृढतयाऽल्पप्रसरणस्य तदीयगन्धस्य बहु-
प्रसरणफलायैव खलु भवति न पुनस्तद्दूषणाय तद्वदिहाप्यापातदृष्टिकृतां सहृदयानां
दुर्जनोद्भावितदोषविचाराय गाढावगाहनकृतामत्रत्यरसभावगुणालंकारादीनामुल्लसने
काव्यमिदमखिलोपलालनीयमेव भवेदिति भावः । दृष्टान्तालंकारः । पूर्वैकवाक्य-
त्वे त्वाक्षेपोऽपि पूर्वार्धे अनिष्टाभ्युपगमरूपानुज्ञयानुगृहीतार्थस्य दृष्टान्तेन समर्थ-
नादनुज्ञानुप्राणितो दृष्टान्तालङ्कार इति केचित् । दृष्टान्तानुप्राणितैवानुज्ञेत्यपरे ॥
1 G. विमतिः.
 
"