This page has been fully proofread once and needs a second look.

कमलवदात्तगन्धत्वमप्यवश्यभाव्येवेति तादृशश्च पराभवः सर्वथा संपत्स्यत
एवेति भावः । प्रकृताप्रकृतोभयश्लेषालङ्कारः ॥ २५ ॥

दोषोन्मुखा दूरत एव सूर्यालोके वहन्तो बहुवैमनस्यम् ।
अह्नाय घूका इव दुष्टलोका बलान्निरस्या बलिहृत्प्रवेकैः ॥ २६ ॥

दोषेति - दूरत एव व्यवहितप्रदेशेऽपीत्यर्थ: । सूरिणां विदुषां कवितां च । आलोके दर्शने सति । इदं च श्रवणादीनामप्युपलक्षणम् । बहु अत्यन्तं वैमनस्यं विमनस्कतां दु:खातिशयमिति भावः । वहन्त: उद्वहन्तः, तेषु देव- प्रसादराजप्रसादादिसंपन्नविद्याविभवातिशयमसहमानाः सन्त इति भावः । अत एव दोषेषु हेयकर्मसु श्रुतिकटुत्वादिषु च उन्मुखाः उद्युक्ताः निषिद्धकर्मणि कुकवितायां चाभिरता इति भावः । यद्वा दोषेषु उन्मुखः परत्र गुणेष्वेव सत्सु यः कश्चिद्दोषः किं स्यादिति तद्गवेषणपरा इत्यर्थः । दोषाभावेऽपि गुणानेव दोषत्वेन प्रतिपादयन्त इति वा । निषिद्धस्यापि क्वचित्तदपवादरूपविध्यन्तरवशात् । तथा श्रुतिकटुत्वादेः दोषत्वेऽपि क्वचिद्रौद्रादिष्वदोषत्वेन च साधु संमतेषु निषिद्धकारिश्रुतिकटुवक्त्रे
त्यादिना दूषयन्त इति भावः । अन्यत्र दूरत एव रविसन्दर्शनस्वरूप योग्यादपि दूरतः प्रभात एवेति भावः । सूर्यस्य रवेः, आलोके दर्शने प्रभायां वा बहुवैमनस्यं वहन्तः सन्तः किमुत साक्षाद्रश्मिसन्दर्शन इति भावः । अत एव दोषोन्मुखा रात्र्युत्सुका रविप्रभाविहीनां रात्रिमेवाकाङ्क्षमाणाः । उलूकानां रात्रावेवोन्मेषादिति भावः । ईदृशा दुष्टलोका दुर्जना दुष्कवयश्च बलिं राजदेयद्रव्यं हरन्ति बलिहृतो राजानः तेषां प्रवेकै: श्रेष्ठैः तेषामेव दण्डाधिकारादिति भावः । बलं प्रतिभाप्राचुर्यं तदस्यास्तीति बली । तादृशं हृत् हृदयं येषां ते विपश्चितः तेषां प्रवेकैः। अन्यत्र बलिहृतां वायसानाम् । "बलिभुग्वायसा अपि " इत्यमरः । तेषां प्रवेकैः घूका उल्लूका इव । "दिवान्धः कौशिको घूकः" इत्यमरः । अह्नाय सत्वरं बलात् हठेन निरस्या: त्याज्या:, राज्याद्भ्रंशयितव्या इत्यर्थः । "सर्वापराधे विप्रस्य विषयान्ते विसर्जनम्" इति वचनानुरोधेन विप्राणां कायिकदण्डाभावादिति भावः । अत्रापि प्रकृताप्रकृतोभयश्लेषः । दिवसे यथा काका उल्लूकान् दर्शं-