2023-04-06 02:50:43 by ambuda-bot
This page has not been fully proofread.
प्रथमस्सर्गः
३५
कमलवदात्तगन्धत्वमप्यवश्यभाव्येवेति तादृशश्च पराभवः सर्वथा संपत्स्यत
एवेति भावः । प्रकृताप्रकृतोभयश्लेषालङ्कारः ॥ २५ ॥
दोषोन्मुखा दूरत एव सूर्यालोके वहन्तो बहुवैमनस्यम् ।
अहाय घूका इव दुष्टलोका बलान्निरस्या बलिहत्मवेकैः ॥ २६ ॥
दोषेति — दूरत एव व्यवहितप्रदेशेऽपीत्यर्थः । सूरिणां विदुषां कवितां
च । आलोके दर्शने सति । इदं च श्रवणादीनामप्युपलक्षणम् । बहु अत्यन्तं वैम-
नस्यं विमनस्कतां दुःखातिशयमिति भावः । वहन्त: उद्वहन्तः, तेषु देवप्रसाद-
राजप्रसादादिसंपन्नविद्याविभवातिशयमसहमानाः सन्त इति भावः । अत एव
दोषेषु हेयकर्मसु श्रुतिकटुत्वादिषु च उन्मुखाः उद्युक्ताः निषिद्धकर्मणि कुकविता-
यां चाभिरर्ता इति भावः । यद्वा दोषेषु उन्मुखः परत्र गुणेष्वेव सत्सु यः कश्चिद्दोषः
किं स्यादिति तद्गवेषणपरा इत्यर्थः । दोषाभावेऽपि गुणानेव दोषत्वेन प्रतिपादयन्तं
इति वा । निषिद्रस्यापि क्वचित्तदपवादरूपविध्यन्तरवशात् । तथा श्रुतिकटुत्वादेः
दोषत्वेऽपि क्वचिद्रौद्रादिष्वदोषत्वेन च साधु संमतेषु निषिद्धकारिश्रुतिकटुवक्त्रे
त्यादिना दूषयन्त इति भावः । अन्यत्र दूरत एव रविसन्दर्शनस्वरूपयोग्यादपि
दूरतः प्रभात एवेति भावः । सूर्यस्य रवेः, आलोके दर्शने प्रभायां वा बहुवैमनस्यं
वहन्तः सन्तः किमुत साक्षाद्रश्मिसन्दर्शन इति भावः । अत एव दोषोन्मुखा
रात्र्युत्सुका रन्निप्रभाविहीनां रात्रिमेवाकाङ्क्षमाणाः । उलूकानां रात्रावेवोन्मेषा-
दिति भावः । ईदृशा दुष्टलोका दुर्जना दुष्कवयश्च बलिं राजदेयद्रव्यं हरन्ति
बलिहृतो राजानः तेषां प्रवेकैः श्रेष्ठैः तेषामेव दण्डाधिकारादिति भावः । बलं
प्रतिभाप्राचुर्यं तदस्यास्तीति बली । तादृशं हृत् हृदयं येषां ते विपश्चितः तेषां
प्रवेकैः । अन्यत्र बलिहृतां वायसानाम् । "बलिभुग्वायसा अपि " इत्यमरः । तेषां
प्रवेकैः घूका उलूका इव। "दिवान्धः कौशिको घूकः" इत्यमरः । अह्वाय सत्वरं
बलात् हठेन निरस्या: त्याज्याः, राज्याड्रंशयितव्या इत्यर्थः । "सर्वापराधे
विप्रस्य विषयान्ते विसर्जनम्" इति वचनानुरोधेन विप्राणां कायिकदण्डाभावा-
दिति भावः । अत्रापि प्रकृताप्रकृतोभयश्लेषः । दिवसे यथा काका उल्लूकान् दर्श-
"