This page has been fully proofread once and needs a second look.

प्रथमस्सर्गः
 
३३
 
सहैव करणीयतया विधानात् दोषाभावस्य विगुणत्वेनोपचारात् खलेषु दोषोद्भावने
साधुषु तदभावप्रतीत्या तथा विधसाधुगुणवर्णनाविश्रान्तत्वाच्च कुकविनिन्दामाह -
 
-
 

शय्यारसालंकृतिरीतिवृत्तिवृत्तोज्झिता गूढपदप्रचारा

गुरौ च वर्णे[^1] कुरुते लघुत्वमसत्कृतिश्चौर्यरतिक्रियेव ॥ २४ ॥
 

 

शय्येति – शय्या पदानामानुगुण्येन विन्यासः । तदुक्तं " पदानुगुण्य-

विश्रान्तिः शय्या शय्येव संमता " इति । रसाः शृङ्गारादयः । अलंकृतयः

अनुप्रासोपमादयः । रीतयः वैदर्भीप्रभृतयः । तदुक्तम् "रीतिर्नाम गुणाश्लिष्टवर्ण-
संघाटना [^2] मता" इति । गुणा: माधुर्यौजःज:प्रभृतयः । वृत्तयः कैशिक्यादयः पूर्वोक्ताः ।
वृत्तानि मात्रावर्णघटिततया छन्दश्शास्त्र- विहितान्यार्यादीनि, तैः उक्तलक्षणः,
उञ्झिता त्यक्ता, कथञ्चिद्रसादि- प्रतीतावपि अस्थाननिवेशविसदृशघटनादिना
दृ
दूष्यतया यथोदितैस्तै- र्विहीनेति भावः । अन्यत्र शय्या तल्पः चौर्यरतौ तल्पादी-
नामसंभवात् । रसो रागःग: अभिरतिरित्यर्थः । निद्रादिना परवशासु परवनितासु
प्रवर्तितस्य सुरतस्य नायिका- नुरागवैकल्यात् तस्य चैकत्रैवानुरागश्चेति रसाभासतया
रसत्वाभावात् । तदुक्तम्- – "एकत्रैवानुरागश्चेत्तिर्यङ्म्लेच्छगतोऽपि वा । योषितां
बहुसक्तिश्च रसाभासस्त्रिधा मत : " इति । यद्वा रसाः द्रवाः कर्पूरकस्तूरी-
'
चन्दनादयः प्रकाशभिया तेषामसंभावितत्वात् वत्त्; अलंकृतयः मञ्जीरनूपुर कङ्कणादयः
शिञ्जितेङ्गितादिना प्रकाशभिया तेषामसंभवात् ; रीति: पातिव्रत्यपरनारी-
पराङ्मुखत्वादयः तादृशस्य तादृशकर्मणि प्रवृत्तेरेवा- भावादिति भावः; वृत्तिः
वर्तनं यत्र क्वचन रमणीये देशे यथाभिल- षितावस्था नमिति भावः; वृत्तं
समयाचार: ; तैः उञ्ञ्ज्ञिझिता वर्जिता चौर्य- रतावमीषां उक्त विधा: असंभावितत्वात्
तथा गूढ:ढः गुप्तः सहृदयानामप्य- वेद्यः, पदानां सुबन्ततिङन्तानां प्रचारो विश्रामस्थानं
यस्यां तादृशी । अन्यत्र गूढः शब्दादिनाप्यन्ये यथा न विद्ध्युः तथा मृदुतया
प्रवर्तत इति भावः । पदयो: चरणयोः प्रचारो विन्यासो यस्यां तादृशी ईदृशी
 

 
 
 
[^
1 ].G. वर्गे.
 

 
[^
2] The printed text of the Pratāparudriīya reads पदसंघटना.
 
5