This page has not been fully proofread.

प्रथमस्सर्गः
 
३३
 
सहैव करणीयतया विधानात् दोषाभावस्य विगुणत्वेनोपचारात् खलेषु दोषोद्भावने
साधुषु तदभावप्रतीत्या तथा विधसाधुगुणवर्णनाविश्रान्तत्वाच्च कुकविनिन्दामाह -
 
-
 
शय्यारसालंकृतिरीतिवृत्तिवृत्तोज्झिता गूढपदप्रचारा।
गुरौ च वर्णे कुरुते लघुत्वमसत्कृतिश्चर्यरतिक्रियेव ॥ २४ ॥
 

 
शय्येति – शय्या पदानामानुगुण्येन विन्यासः । तदुक्तं " पदानुगुण्य-
विश्रान्तिः शय्या शय्येव संमता " इति । रसाः शृङ्गारादयः । अलंकृतयः
अनुप्रासोपमादयः । रीतयः वैदर्भीप्रभृतयः । तदुक्तम् "रीतिर्नाम गुणाश्लिष्टवर्ण-
संघाटना मता" इति । गुणा: माधुर्यौजःप्रभृतयः । वृत्तयः कैशिक्यादयः पूर्वोक्ताः ।
वृत्तानि मात्रावर्णघटिततया छन्दशास्त्रविहितान्यार्यादीनि, तैः उक्तलक्षणः,
उञ्झिता त्यक्ता, कथञ्चद्रसादिप्रतीतावपि अस्थाननिवेशविसदृशघटनादिना
दृष्यतया यथोदितैस्तैर्विहीनेति भावः । अन्यत्र शय्या तल्पः चौर्यरतौ तल्पादी-
नामसंभवात् । रसो रागः अभिरतिरित्यर्थः । निद्रादिना परवशासु परवनितासु
प्रवर्तितस्य सुरतस्य नायिकानुरागवैकल्यात् तस्य चैकत्रैवानुरागश्चेति रसाभासतया
रसत्वाभावात् । तदुक्तम् – "एकत्रैवानुरागश्चेत्तिर्यङ्लेच्छगतोऽपि वा। योषितां
बहुसक्तिश्च रसाभासस्त्रिधा मत : " इति । यद्वा रसाः द्रवाः कर्पूरकस्तूरी-
'
चन्दनादयः प्रकाशभिया तेषामसंभावितत्वात् ; अलंकृतयः मञ्जीरन पुरकङ्कणादयः
शिञ्जितेङ्गितादिना प्रकाशभिया तेषामसंभवात्; रीति: पातिव्रत्यपरनारी-
पराङ्मुखत्वादयः तादृशस्य तादृशकर्मणि प्रवृत्तेरेवाभावादिति भावः; वृत्तिः
वर्तनं यत्र वचन रमणीये देशे यथाभिलषितावस्थानमिति भावः; वृत्तं
समयाचार: ; ऍतैः उञ्ञ्ज्ञिता वर्जिता चौर्यरतावमीषां उक्तविधा: असंभावितत्वात्
तथा गूढ: गुप्तः सहृदयानामप्यवेद्यः, पदानां सुबन्ततिङन्तानां प्रचारो विश्रामस्थानं
यस्यां तादृशी । अन्यत्र गूढः शब्दादिनाप्यन्ये यथा न विद्युः तथा मृदुतया
प्रवर्तत इति भावः । पदयो: चरणयोः प्रचारो विन्यासो यस्यां तादृशी ईदृशी
 
1 G. वर्गे.
 
2 The printed text of the Pratāparudriya reads पदसंघटना.
 
5