This page has not been fully proofread.

३२
 
रुक्मिणीकल्याणे सव्याख्याने
 
तदुद्भूतेऽस्मिन् इन्दुत्वरूपणं गम्यत इत्येकदेशविवर्ति । इन्दुरिति पाठे समस्त-
वस्तुविषयकं सावयवरूपकं सुधाझरीसोदरेत्यार्थीचोपमासंसृष्टिः ॥ २२ ॥
 
अथात्मनः सहोदरमग्रजं गुरुमर्धनारीश्वरं प्रस्तोतुकाम: कवि: "आत्मनाम
गुरोर्नाम [नामाति] कृपणस्य च । श्रेयस्कामो न गृह्णीयात् " इति गुरुनामग्रहण-
निषेधस्यानुवादरूपतया क्वचित् गुणीभावरूपतया वावश्याख्येयत्वे दोषाभावं
मन्यमानः तदीयां वाचमेव स्तौति -
 
-
 
`विरिञ्चिकान्ताकरपद्मचञ्चद्विपञ्चिकानिक्कणवञ्चकश्रीः ।
षड्दर्शनी' केळिसखी चकास्ति वागर्धनारीश्वरवादिमौलेः ॥ २३ ॥
 
-
 
विरिथ्वीति — विरिञ्चिकान्तायाः सरस्वत्याः । "विरिञ्चिश्च विरिञ्चन: "
इत्यमरशेषः । करपद्मे पाणिपङ्कजे चञ्चन्त्याः चलन्त्याः वाद्यमानाया इति भावः ।
विपञ्चिकाया: वीणाया: कच्छपीनाम्न्याः । "सरस्वत्यास्तु कच्छपी " इत्यमरः ।
निक्कणस्य निनादस्य वञ्चिका वञ्चयित्री तद्विजेत्रीति यावत् । श्री: शोभा. माधुर्य-
मिति भाव: । यस्यास्तादृशी षण्णां दर्शनानां शास्त्राणां समाहारः षड्दर्शनी ।
इदं च सर्वविद्योपलक्षकं तस्याः केळिसखी विहारसहचरी तत्तन्त्रसिद्धान्तानु-
वर्तिनीति भावः । यद्वा षड्दर्शनी केळी सखी यस्या इति बहुव्रीहिः । तेन वाचः
प्राधान्यं षड्दर्शन्या गुणीभावश्च व्यज्यते । तेन स्वैरादित्वरामपि तदीयां
वाणीं सर्वाणि तन्त्राण्यनुवर्तन्त इति तस्य महामहिमत्वं व्यज्यते । अर्धनारीश्वर-
नाम्नः वादिनां विवादशीलानां विदुषां मौले: किरीटभूतस्य समस्त विद्वद्भिः
शिरसोपलालितस्येत्यर्थः । वाक् वाणी चकास्ति भासते ।
काट दीप्तौ"
इति धातोः लट् । मत्र साक्षात् गुरुनामसंकीर्तनस्यायुक्तत्वेऽपि वाचि गुणीभूतस्य
कथं न दोषावहमिति तदीयवागनुधावनमिति मन्तव्यम् । अत्र करपद्ममित्युपमा ।
केळिसखीति वादिमौलेरिति च रूपके वृत्त्यनुप्रासश्चेति तेषां संसृष्टिः ॥ २३ ॥
 
एवं महाकविप्रशंसां विशिष्य सामान्येन चारचय्य सांप्रतं धर्मशास्त्रेषु
"कन्यादानं वृषोत्सर्गः सदर्हः पापकुत्सनं " इति खलनिन्दायाः साधुप्रशंसया
± A and G. षड्दर्शिनी.
 
1 G. विरिञ्च