This page has not been fully proofread.

प्रथमस्सर्गः
 
३१
 
रूपं येन तादृशः । विष्णुपक्षे दशसु मत्स्यकूर्मादिरूपेण दशविधेषु रूपकेषु
मूर्तिषु । उच्चैः उत्कृष्टा अमानुषा वेदाहरणभूम्युद्धरणसमुद्रसेतुबन्धादय ऊह-
नीया: । चर्मोत्सेधरूपतया स्वीयभुजशिखरस्थिताभ्यां शङ्खचक्राभ्यां सहैवोत्पन्न-
तया साक्षाद्विष्णोरंशरूपत्वेऽपि भाव्यमाने उक्तविधया दशविधरूपकाचरणमपि
संवादिप्रमाणं भवतीति भावः । विश्वजिता विश्वजिदाख्येन मखेन ऋतुना
विख्यातिमान् प्रसिद्धियुक्तः विश्वजिद्याजीति भुवनप्रसिद्ध इत्यर्थः । श्रीमान्
अणिमाद्यष्टसिद्धिसम्पन्नः श्रीनिवास इति कृतनामा । अध्वरीणां यज्वनां
सार्वभौमः श्रेष्ठः । क्षितौ भूम्याम् । भाति द्योतते । अखण्डभूवलयविख्यातो भवतीति
भाव: । भातीति वर्तमानार्थकलप्रयोगात्तादृशे जीवत्येवानेन कविनाऽयं प्रबन्धो
निर्मित इति गम्यते । विष्णुसादृश्यवर्णनात् उपमा ॥ २१ ॥
 
अथात्मनो वैमात्रेयमग्रजं केशवदीक्षितं स्तौति -
गाधेयवंशाम्बुधिसंभवो यो वसिष्ठनिष्टां विदधे लघिष्ठाम् ।
सुधाझरी सोदरवाग्विलासो दीव्यत्यसौ केशवदीक्षितेन्द्रः ॥ २२ ॥
 
"
 
गाधेयेति - गाधेयस्य विश्वामित्रस्य वंशः अन्वय एव अम्बुधि: सागरः
तस्मात् सम्भव उत्पत्तिर्यस्य, विश्वामित्रगोत्रज इत्यर्थः । यः केशवदीक्षितः ।
वसिष्ठस्य ब्रह्मसूनोर्मुनेः निष्ठां नियमं विधिविहितानां कर्मणामवैकल्येनाचरणं
निरन्तरतपस्थिति वा तपसा चिन्तितार्थसंसाधनं वा । "निष्ठानिर्वहणं सम: "
इत्यमरः । लविष्ठां अत्यन्तमल्पीयसीम् । "अतिशायने तमबिष्ठनौ " इति इष्ठन्
प्रत्ययः । विदधे व्यतानीत् । विपूर्वाद्दधातेः कर्तरि लिट् । विश्वामित्रवंशजोऽयं
तस्य वसिष्ठात् पराभवजनितमयश: प्रमाष्टुमिव वसिष्ठं निष्ठया व्यजयत्किमिति
भावः । सुधाझर्या: अमृतासारस्य सोदर : सहजः सदृक्ष इत्यर्थः । वाग्विलासः
सारस्वतोन्मेषः यस्य तादृशः स इत्यध्याहारः । सोऽसौ उक्तगुणसंपन्नः केशवनामा
दीक्षितानां यज्वनां इन्द्रः श्रेष्ठ: । दीक्षितेन्दुरिति पाठे दीक्षित एव इन्दुश्चन्द्र
इत्यर्थः । दीव्यति विद्योतते । इन्दुरिति पाठे गाधेयवंशस्याम्बुधित्वरूपणेन
दीक्षितेन्दु: is another reading noted by the commentator.
 
1
 
2 The manuscript has
 
but it is evidently a mistake.