2023-04-09 16:34:03 by jayusudindra
This page has been fully proofread once and needs a second look.
भातीति – वासरे दिवसे भासुरौ द्योतमानौ कनकदण्डादिमण्डिततया दिवसधृतत्वेन च महाबिरुदरूपाविति भावः । उच्चै: उन्नतौ अत्युच्छ्रित-
गजमस्तकोपरि धार्यमाणत्वादिति भावः । प्रदीपौ चिह्नं अनितरसाधारण- बिरुदरूपौ यस्य तादृशः। निरवद्यविद्यावैशद्यप्रमुदितमहीभृदतिसृष्टान-
वधिकबिरुदवानित्यर्थः । भगवन्तं षाड्गुण्यपरिपूर्णमीश्वरम् । प्रपन्नः प्राप्तः शरणत्वेनेति भावः । तेन उक्तबिरुदादिकं न स्वकामनाधीनम् । किं तर्हि ? मुदितमहीभृन्मोदायत्तमिति च्यज्यते । तथा अशेषासु निखिलासु भाषासु संस्कृतप्राकृतमागधपैशाचापभ्रंशादिषु शास्त्रीयासु ; तथा आन्ध्रकर्णाट- महाराष्ट्रद्रमिडादिषु, मिश्रगौडमैथिलादिषु च लौकिकासु । कवितायां कवित्वे । एकैकतत्तद्भाषावलम्बनप्रबन्धनिर्माणे द्वित्रिचतुरादिभिर्भाषा- भिर्नानाप्रबोधकैकशब्दप्रयोगात्मकविविधकृतिविरचने चेति भावः ।
प्रवीण: निपुणः । वादे विवादे । विप्रतिपत्तिविरचनपूर्वकप्रतिभटनिखिल विद्वद्विजय इति भावः । उद्भट : समर्थः तथा व्याकृतानि व्याख्यातानि न केवलं पठितपाठितमात्राणि तत्तदर्थप्रकाशकप्रत्यग्रप्रबलप्रबन्ध प्रपञ्चितार्थानीति भावः । सर्वाणि तन्त्राणि शास्त्राणि पतञ्जलिकाणाद- गौतमजैमिनिव्यासकपिलादिप्रपञ्चितानीति भावः, येन तादृशः ॥ २० ॥
किञ्च -
ध्वन्यध्वनीनो दशरूपकोच्चैः क्रियाकृतश्रीरमणानुकारः ।
विख्यातिमान्विश्वजिता मखेन श्री श्रीनिवासाध्वरिसार्वभौमः ॥२१॥
ध्वयध्वेति— ध्वन्यध्वनीनः ध्वनिमार्गसञ्चरणशीलः वाच्यातिशायिव्यङ्ग्य-
रूपोत्तमकाव्यकृतिकुशल इति भावः । तद्गच्छतीत्यर्थे "अध्वनो यत्खौ " इति खप्रत्ययः । "अध्वनीनोऽध्वगोऽध्वन्य: " इत्यमरः । [दश] विधानां रूपकाणां नाटकादीनाम् । रूप्यन्ते प्रकाश्यन्ते अर्था अमीभिरिति रूपकाणि दृश्यप्रबन्धाः । प्रशंसायां कप्रत्ययः । रूपकाणां दशविधत्वमुक्तं काव्यप्रकाशे – "नाटकं च प्रकरणं भाणः प्रहसनं डिमः । व्यायोग- समवाकारौ वीथ्यङ्केहामृगा इति" इति ॥ तेषु उच्चैः उत्कृष्टतया अनितरसाधारणया क्रियया प्रबन्धविरचनव्यापारेण कृतः अचरितः ।
श्रीरमणस्य लक्ष्मीपतेः विष्णो: अनुकार: अनुकरणं स्वयमपि तत्कृतकर्मानुष्ठान-