This page has been fully proofread once and needs a second look.

रुक्मिणीकल्याणे सव्याख्याने
 
भातीति – वासरे दिवसे भासुरौ द्योतमानौ कनकदण्डादिमण्डित-
तया दिवसधृतत्वेन च महाबिरुदरूपाविति भावः । उच्चैःचै: उन्नतौ अत्युच्छ्रित-

गजमस्तकोपरि धार्यमाणत्वादिति भावः । प्रदीपौ चिह्नं अनितरसाधारण- बिरुदरूपौ
यस्य तादृशः । निरवद्यविद्यावैशद्यप्रमुदितमहीभृदतिसृष्टान-
वधिक बिरुदवानित्यर्थः ।
भगवन्तं षाड्गुण्यपरिपूर्णमीश्वरम् । प्रपन्नः प्राप्तः शरणत्वेनेति भावः । तेन
उक्तविबिरुदादिकं न स्वकामनाधीनम् । किं तर्हि ? मुदितमहीभृन्मोदायत्तमिति
व्
च्यज्यते । तथा अशेषासु निखिलासु भाषासु संस्कृतप्राकृतमागधपैशाचापभ्रं-
शादिषु शास्त्रीयासु ; तथा आन्ध्रकर्णाट- महाराष्ट्रद्रमिडादिषु, मिश्रगौडमैथिलादिषु
च लौकिकासु । कवितायां कवित्वे । एकैकतत्तद्भाषावलम्बनप्रबन्ध निर्माणे द्वित्रि-
चतुरादिभिर्भाषा- भिर्नानाप्रबोधकैकशब्दप्रयोगात्मकविविधकृतिविरचने चेति भावः ।

प्रवीणःण: निपुणः । वादे विवादे । विप्रतिपत्तिविरचनपूर्वक प्रतिभटनिखिल विद्वद्विजय
इति भावः । उद्भटःट : समर्थ:थः तथा व्याकृतानि व्याख्यातानि न केवलं पठित-
पाठितमात्राणि तत्तदर्थप्रकाशक प्रत्यग्रप्रबलप्रबन्ध प्रपञ्चितार्थानीति भावः ।
सर्वाणि तन्त्राणि शास्त्राणि पतञ्जलिकाणाद- गौतमजैमिनिव्यास कपिलादिप्रपञ्च-
चितानीति भावः, येन तादृशः ॥ २० ॥
 
३०
 

किञ्च -
 

ध्वन्यध्वनीनो दशरूपकोच्चैः क्रियाकृतश्रीरमणानुकारः ।

विख्यातिमान्विश्वजिता मखेन श्री श्रीनिवासाध्वरिसार्वभौमः ॥ २१
 

 
ध्वयध्वेति — ध्वन्यध्वनीनः ध्वनिमार्गसञ्चरणशीलः वाच्यातिशायिव्यङ्ग्य-

रूपोत्तमकाव्यकृतिकुशल इति भावः । तद्गच्छतीत्यर्थे "अध्वनो यत्खौ " इति
खप्रत्ययः । "अध्वनीनोऽध्वगोऽध्वन्यःय: " इत्यमरः । [दश] विधानां रूपकाणां
नाटकादीनाम् । रूप्यन्ते प्रकाश्यन्ते अर्था अमीभिरिति रूपकाणि दृश्यप्रबन्धाः ।
प्रशंसायां कप्रत्ययः । रूपकाणां दशविधत्वमुक्तं काव्यप्रकाशे – "नाटकं च प्रकर
णं भाणः प्रहसनं डिमः । व्यायोग- समवाकारौ वीथ्यङ्केहामृगा इति" इति ॥ तेषु उच्चैः
उत्कृष्टतया अनितरसाधारणया क्रियया प्रबन्धविरचनव्यापारेण कृतः अचरितः ।

श्रीरमणस्य लक्ष्मीपतेः विष्णो: अनुकार: अनुकरणं स्वयमपि तत्कृतकर्मानुष्ठान-