2023-04-06 02:50:41 by ambuda-bot
This page has not been fully proofread.
२८
रुक्मिणीकल्याणे सव्याख्याने
"
दयः सर्वे निर्मला भवन्तीति प्रसिद्धम् । जडाशयानां मन्दमतीनाम् सारस्वत -
सारानभिज्ञानामिति भावः । हृदयं चित्तम् कर्तृप्रसादं नैर्मल्य कविहृदय-
परिज्ञानकौशलं स्वीयकवितायां क्लिष्टत्वमन्तरा सरळत्वं च यातितमा विशेषतो
भजति । अतिमन्दानपि स्वप्रतिभाप्रागल्भ्यादीन् सर्वविद्यापारगान करोतीति भावः ।
'या प्रापणे " इति धातोर्लडन्तादतिशयार्थे "तिङश्च " इति सूत्रेण तमबन्तात्
"किमेत्तिङव्ययवादाम्वद्रव्यप्रकर्षे" इत्याम्प्रत्ययः । अन्यत्र डलयोर भेदात्
जलाशयानां सरित्कासारादीनां हृदयं आन्तरभागोऽपीत्यर्थः । प्रसादं
नैर्मल्यं यातितमाम्, सारस्वतस्य साहित्यस्य मर्म सारं वेत्तीति तादृशः । अन्यत्र
सारस्वतं समुद्रसम्बन्धि मर्म सर्वसारं वेत्तीति तादृशः । सप्तानामपि सागराणा-
मगस्त्येनाचान्तत्वादिति भावः । स एष ईदृशमहिमवत्तया प्रसिद्धः अगस्त्यः
अगस्त्यनामा कविः कुम्भसम्भवश्च विदुषां कवीनां ज्ञानिनां च मौलौ शिरसि
विभाति भासते । सकलविद्वन्मण्डलोपलालितो भवतीति भावः । प्रकृता-
प्रकृतश्लेषः ॥ १८ ॥
अथ सर्वेषां कवीनामिह प्रशंसनीयत्वेऽपि प्रत्येक प्रशंसायाः कवीनामा-
नन्त्येन दुस्साधत्वं मन्वानः सामान्येन सर्वान् कवीन् प्रस्तौति –
सर्गेषुसर्गेषु विचित्रतत्तद्वृत्तानुरोधेन विनैव यत्नम् ।
व्यक्तं व्यवस्थापितवृत्तिभेदाः परे च वाचामधिपाः प्रथन्ताम् ॥१९॥
सर्गेष्विति–सर्गेषुसर्गेषु प्रत्यध्यायम् । "सर्गः स्वभावनिर्मोक्षनिश्चया-
-1"
ध्यायसृष्टिषु " इत्यमरः । "नित्यवीप्सयो: " इति वीप्सायां द्विरुक्तिः, एकं पदम् ।
विचित्राणां नानाविधानां तेषां तेषां च वृत्तान्तानां चरित्राणां वसन्ततिलका-
दीनां च अनुरोधेन अनुवर्तनेन अविरोधेनेत्यर्थः । प्रतिपाद्यरसानुगुण्येनेति
भावः । यत्नं प्रयत्नं तत्तदनुगुणपदान्वेष[ण] प्रयासम् । विनेव अन्तरैव ।
वश्यवाचां रसानुगुणा वाचः स्वयमेव वदनान्निस्सरन्तीति भावः । व्यक्तं स्फुटं
यथा तथा । व्यवस्थापितः प्रपञ्चितः, वृत्तीनां कैशिक्यादीनाम्, भेदः
The original manuscript has afy and it has been changed
on the authority of the edition printed with Bhānuji Dīkṣita's
commentary.