This page has been fully proofread once and needs a second look.

२६
 
रुक्मिणीकल्याणे सव्याख्याने
 
क्षेमेन्द्रेति यदीया क्षेमेन्द्रकविसम्बन्धिनी तत्प्रणीतेत्यर्थः । कवित्व-
धारा
साहित्यधोरणी । धारात्वरूपणाद्रसमयीति व्यज्यते । करं करपदम्,

" स्वं रूपं शब्दस्य " इत्यनुशासनात् । मधुवाक् मकरन्दपदावयवीभूतं ककार-
रेफात्मकं पदमिति भावः । तदेव करं राजदेयबलिविशेषम् । "राजदेयबलौ कर:
" इति विश्व: । आददाना गृह्णती सती । मकरन्दं मधु । अलं अत्यन्तम् । मन्दं
मकरन्दपदे उक्तविधया व्यपगतकरपदावशिष्ट- मन्दपदवाच्यतया अत्यल्पमाधुर्यं
यंं विधत्ते विदधाति । [अद्धा] ध्रुवं सत्यम् । क्षेमेन्द्रकवितारसास्वादात्पूर्वं अतिमधुरत्वेन
मकरन्दमनुभूतवतामेव सहृदयानां तत्कवितास्वादसमनन्तरमेव क्षौद्रर सेऽत्यल्पत्व-
बुध्युदयेन निमित्तेन सकलमधुरवस्तुजातविजेत्र्या क्षेमेन्द्रकवित्वधारया पराजित-

मकरन्दसकाशात् तदीयसारे तन्नामान्तरावयवीभूतकरपदे श्लेषेण राजदेय बलि-
त्वेनाध्यवसिते बलिरूपेणापहृते परिशिष्टमन्दपदवाच्यतदर्थानुरोधाच्च मन्द-
पदवाच्योऽभूत्किमिति भावः । तस्मा इत्यध्याहार्यम् । तस्मै क्षेमेन्द्र इति

नाम यस्य तादृशाय । क्षेमाणि कुशलानि । भूयासुः भवतेराशिषि लिङ् ।

अत्र कवित्वधाराकृतमन्दीभवनकर्मणि तत्कृतमकरन्दसकाशात् करादानं

वस्तुतोऽसदपि शब्दार्थोभयसाधारणकरपदश्लेषमूलाभेदातिशयोक्ति- सम्पन्नमहेतुरेव
हेतुत्वेनोपन्यस्तमिति हेतूत्प्रेक्षा ॥ १६ ॥
 

अथ वामनकविं प्रस्तौति-

पदेन दिव्यव्य ध्वनिभासुरेण रसोर्मिमग्नात्रचयन्कवीन्द्रान् ।

दूरीकृतोन्मेषदुरीहकाव्यः स वामनो भाति समुन्नतश्रीःरी: ॥ १७ ॥
 

पदेनेति – दिव्येन वाच्यातिशायितया लसमानेन । ध्वनिना व्यञ्जनया

भासुरेण शोभमानेन । अन्यत्र दिवि अध्वनीति पदच्छेदः, गगनमार्ग इत्यर्थः
भ्रा
। भासुरेण प्रकाशमानेन । पदेन सुबन्ततिङन्तादिना; जाता- वेकवचनम्, पदैरित्यर्थः।
एकेनैव पदेन सहृदयाह्लादे कृते किमु वक्तव्य- मनेकैरिति तदीयप्रबन्धस्याति-
प्रशस्तत्वं व्यज्यते । अन्यत्र चरणेन । कवीन्द्रान् महाकवीन् सहृदयानित्यर्थः ।
अन्यत्र पक्षिमुख्यान् । इदं च गगनचारिणां सर्वेषामुपलक्षणार्थम् । रसानां
शृङ्गारादीनाम् । ऊर्मिषु तरङ्गेषु मग्नान् निमज्जितान् स्वीयसाहितीरसास्वा-