This page has not been fully proofread.

२४
 
रुक्मिणीकल्याणे सव्याख्याने
 
व्यञ्जिताः प्रकाशिताः भावानां द्रव्यादिपदार्थानां भेदाः परस्परवैलक्षण्यं येन
तादृशस्सन् । दीव्यति प्रकाशते । चमत्कृतार्थकल्पकत्वेन सकललोकप्रकाश-
कारितया च सर्वाशंसनीयो भवतीति भावः । प्रकृताप्रकृतश्लेषः ॥ १३ ॥
 
अथ बाणकवि प्रस्तौति-
बाणो धुरीणः कविपुङ्गवेषु प्रकाशतां भव्यफलोदयश्रीः ।
अमुञ्चमानोऽपि गुणं परेषां विव्याध मर्माणि विशेषतो यः ॥ १४ ॥
 
——————
 
बाण इति– कविपुङ्गवेषु कविश्रेष्ठेषु काळिदासादिषु मध्ये । धुरीण:
घूर्वहः । "खस्सर्वधुरां" इति केवलादपि खप्रत्ययः । कविकर्मनिर्वाहक इत्यर्थः ।
अन्यत्र कविपुङ्गवेषु पक्षिवर्येषु । धुरीण: शीघ्रपातादिपक्षवत्कर्मनिर्वाहक
इत्यर्थ: । "विकविः पतग: पतत् " इति श्रीहर्ष: । बाणस्यापि पक्षवत्तया
तत्कर्माचरणस्यानपायादिति भावः । अत एव, भव्यफला कुशलप्रयोजनवती
उदयस्य उत्पत्ते: श्रीः सम्पत् यस्य समयाचारेण स्वसूक्त्या भगवद्गुणादिवर्णने
च जन्मसाफल्यं प्राप्तमिति भावः । अन्यत्र भव्यं रमणीयं फलं काळायस-
बाणाग्रनिवेशितशल्यम् । " फलमिष्व सस्ये " इति रत्नमाला । यस्याः भव्य-
बालायाः उदयस्य मुखप्रदेशस्य श्री: शोभा यस्य तादृशः । यः बाणकविः
सायकश्च । गुणं प्रतिभाप्रवचनादिकम् । अन्यत्र मौवीं । "मौर्वी ज्या शिञ्जिनी
इत्यमरः । अमुञ्चमानः अविजहन्नपि । विशेषतः समधिकतया । परेषां
प्रतिभटविबुधानां कवीनां च । मर्माणि न्यक्कारहेतून् दोषान् । विव्याध-
बिभेद दोषोद्घाटनादिना परानभ्यभवदिति भावः । अन्यत्र अमुञ्चमानोऽपि
अत्यजन्नपि । केवलमौर्व्यां सन्धायाप्रयुक्तोपीत्यर्थः । विशेषतः लक्ष्ये प्रयुक्तो यथा
शत्रूणां मर्माणि भिन्द्यात्ततोऽधिकतयेति भावः । परेषां शत्रूणाम् । मर्माणि
हृदयादिस्थानविशेषान् । विव्याध बिभेद । सः बाण: बाणनामा कविः, सायकश्च ।
प्रकाशतां दीव्यतु । प्रपूर्वात् काश्रदीप्ताविति धातोर्लोट् । अत्र सायकपक्षे मौर्वी-
संहितमात्रस्याप्रयुक्तस्यापि बाणस्य विशेषतः परमर्मविदारकत्वविरोधस्य, कविपक्षे
निखिलगुणवतः प्रतिवादिमर्मोद्घाटयितृत्वार्थेनाभासीकरणाद्विरोधाभासालङ्कारः ॥
 
P
 
गुण: ?"