This page has been fully proofread once and needs a second look.

प्रथमस्सर्गः
 
२३
 
पुण्यं भगवत्कथासङ्कीर्तनसम्पन्नं सुकृतं भजतीति तादृशाय । माघाय माघ- नाम्ने
महाकवये । अघं दुःखं दुरितं वा । " अघं दुरितदुःखयोः " इति विश्व:वः । मा भव-

तात् मा भूत् । निषेधार्थक शब्दयुक्तादाशीरर्थाद्भवतेर्लोट् । सर्वदा सुखसमृद्धः
सुकृतसन्तानसम्पन्नश्च भूयादित्यर्थः । श्लेषालङ्कारः ॥ १२ ॥
 

अथ भारविं प्रस्तौति
 
-
स भारविर्दीव्यति पादबृन्दैर्मन्देहसंमोहनमादधानैः ।

धनञ्जयस्फूर्तिविधायिभिस्सत्पद्योदितैर्व्यञ्जितभावभेदः
 
॥ १३ ॥
 

स इति - सः प्रसिद्धः भारवि: भारविर्नाम कविः । अन्यत्र सभा: रवि-
रिति पदच्छेदः । भासा दीप्यात्य सहितः सभास्तादृशो रविः सूर्यः । मन्देहानां

मन्दबुद्धीनाम् । यद्यपीहाशब्दस्येच्छापरत्वं तथापीच्छाया बुद्धिजन्यत्वात्त-

त्समानविषयत्वाद्वुबुद्धावौपचारिकः । यद्वा मन्देहानां मन्दोद्यमानामित्यर्थः । " ईहो-
द्यमेच्छया: " इति रत्नमाला । तेषां संमोहनं सम्यगर्थानवबोधम् । आदधानै:
नैः विदधानैः । अबुद्धिमतां बुद्धिमतामपि मन्द्योद्यमानां गूढव्यङ्ग्यतया ज्ञटि-
त्यर्थावबोधाजनकैरिति भावः । अन्यत्र मन्देहनाम्नां दानवानाम् संमोहनं
सन्तापातिशयजनितां मूर्छामादधानैः । "रक्षांस्यादित्यं योधयन्ति " इत्यादि-
श्रुतेः । तथा धनञ्जयस्य अर्जुनस्य स्फूर्तितिं ख्यातितिं विदधतीति तादृशः ।
अनेनैव कविना किरातार्जुनीयाख्ये काव्ये धनञ्जययशोविशदीकरणादिति भावः ।
अन्यत्र धनञ्जयस्य अग्नेः । "वीतिहोत्रो धनञ्जयः " इत्यमरः । स्फूर्तितिं रात्रौ
विप्रकृतदेशप्रस्फुरणं विदधतीति तादृशैः । "अग्निं वा वादिस्य :यः सायं प्रविशति ।
तस्मादग्निर्दू- रान्नक्तं ददृशे " इति श्रुतेः । तथा सत्पद्योदितैः सत्सु साधुषु
अदोषसगुण सालङ्कारत्वादिविशिष्टतया विद्वदुपलालितेष्विति भावः पद्येषु श्लोकेषु

उदितैः प्रयोजितैः । पादबृन्दैः पद्यचतुर्थाथांशकदम्वैःबैः । पादशब्दस्य पदपरत्वमा-
श्रित्य सुबन्तादिपदजालैरिति वा । अन्यत्र सतां नक्षत्राणां पद्यायां सरणौ
गगनमार्ग इत्यर्थः । उदितैः प्रवृत्तैः । पादबृन्दै: रश्मिजालैः । "पादा रश्यङ्घ्रि-
तुर्योयांशा : "
इत्यमरः । व्यञ्जिताः व्यञ्जनाख्यया वृत्त्या ध्वनिता: भावानां रत्या-
दीनां वस्त्वलङ्काररसादीनां च भेदाःदा: प्रपञ्चा: येन तादृशस्सन् । अन्यत्र