2023-04-06 02:50:40 by ambuda-bot
This page has not been fully proofread.
रुक्मिणीकल्याणे सव्याख्याने
आलोचितानि हृदयानन्दितयानुभाव्यमानानि । भव्यानि कुशलानि "भव्यगेय"
इत्यादिना कर्तरि यत्प्रत्ययः । अर्थतः शब्दतश्चात्यन्तमधुराणीति भावः । पद्यानि
श्लोका यस्य तादृशः । "पदान्यत्र दृश्यन्ते " इति यत्प्रत्ययः । अत्र एकैकस्मि-
नेव सर्वेषां रसानामस्फुरणात्कचिद्रपस्फुरणाद्वा प्राय इति । अन्यत्र प्रायो रसालैः
चूतैः "आम्रश्चूतो रसाल " इत्यमरः उचितया अनुरूपया योजिता
भव्या मनोज्ञा प्रच्छायशीतलत्वेन मृदुशाद्वलसिकतिलत्वादिना सुखसञ्चरणक्षमेति
भाव: । पद्या सरणियस्मिन् तादृशः । रसाला एव उद्याने भूयसा मार्गवर्तिनो
भवन्तीति भावः । कविता साहित्य : ता एव लतास्तासामारामदेश: उद्यानभूमिः
भवतीति शेषः । अयं ईदृशो भवभूतिः भवभूतिनामा कविः । भवात् ईश्वरात्
भूति: वाग्विभूतिः यस्येति व्युत्पत्त्या महेश्वरानुग्रहलब्ध विद्यावैशद्यो वरकविरिति
प्रतीयते । तेन पार्वतीपरमेश्वरयोरनुग्रहभाजनीभूतयोर्द्वयोः काळिदासभवभूत्योरव्य-
वधानेन प्रतिपादनात्परस्परसंश्लिष्टयोरुमामहेश्वरयोरभिव्यक्त्या कवेः तदुभय-
विषयकरतिभावो व्यज्यते । आमोदद: आनन्दातिशयप्रदाता सौरभ्यसंपादकश्च ।
अस्तु भूयात् । न इति शेषः । अत्र उक्तविशेषणविशिष्टस्य कवेरेवंविधोद्यान-
त्वरूपणा समस्तवस्तुविषयकं सावयवं विशिष्टरूपकमलङ्कारः । तेन तथाविधो-
द्यानस्येव कवेः स्वामोदप्रदातृत्वमन्पायमिति व्यज्यते ॥ १९ ॥
२२
अथ माघकविं प्रस्तौति-
माघाय माघं भवतान्मुकुन्दकेळीकथावर्णनपुण्यभाजे ।
स्वर्गावरोधा इव यस्य वाचः स्वैरं भजन्ते सुरसार्थशय्याः ॥ १२ ॥
माघायेति – यस्य कवेः । वाचः सूक्तयः । स्वर्गावरोधा इव सुरलो-
कान्तःपुराणीव । सु शोभना: रसाः शृङ्गारादयः अर्था उत्प्रेक्षागोचराः
शय्या: रसानुगुणपदविन्यासरूपाः । अन्यत्र सुराणां इन्द्रादिदेवानां सार्थस्य
समूहस्य । "सङ्घसार्थौ तु जन्तुभिः " इत्यमरः । शय्याः पर्यङ्कान् । भजन्ते
लभन्ते । प्राप्त्यर्थात् "भज सेवायां " इति धातोर्लट् । यत्तदोर्नित्यसम्बन्धात्तस्मा
इत्यध्याहायम् । तादृशाय। अथ च मुकुन्दस्य कृष्णस्य केळीकथायाः विहार-
चरितस्य वर्णनेन कथनेन शिशुपालवधाख्यमहाकाव्यविरचनेनेति भावः ।