This page has been fully proofread once and needs a second look.

अथ काळिदाससूक्तेश्शर्करात्वेन वर्णनमयुक्तमित्यभिप्रायवानाह-
 
काळीमुखोद्यद्धनसारवीटीसौरभ्यसौलभ्यजुषा यदुक्त्या ।
सितासिताजायत लज्जितेव स काळिदासः स्तुतिगोचरः किम् ॥ १०॥
 
काळीति – सिता शर्करा । काळ्या: गौर्या : मुस्वात् वदनात् उद्यन्त्याः आविर्भवन्त्याः वनसारवीट्याः कर्पूरमिश्रितताम्बूलस्य सौरभ्यस्य
परिमळस्य सौलभ्यं अप्रयासोपलब्धिम् जुषति प्राप्नोतीति तादृश्या । यदुक्त्या कालिदासवाण्या निमित्तभूतया । लज्जितेव ह्रीणेव । सिता धवळा। अजायत । उत्कृष्टत्वेन प्रख्यातस्य स्खापेक्षयात्युत्कृष्टस्य संभवे 'संम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते' इति न्यायाल्लज्जया धवलीभावस्य प्रसिद्धत्वादिति भावः । अन्यथा माधुर्यवतां मकरन्दादीनामिव पाटलवर्णत्वं कुतो न स्यादित्याशयः । स एवं परदेवताप्रसादसमासादितसर्वातिशा- यिवाङ्माधुरीक: काळिदासः । स्तुतेः स्तवस्य । किं गोचरः विषय: किमु ? अविषय एवेत्यर्थः । तदीया गुणास्सामस्त्येन केनापि वक्तुमशक्या एवेति भावः । अत्र स्वाभाविकशर्कराधावळ्ये लज्जाहेतुत्व सम्भावना हेतूत्प्रेक्षा । वस्तुतो लज्जाभावादसिद्धविषया । इत्थं च कालिदासवाक्
शर्करातिशायितया ताद्रूप्यवर्णनमयुक्तमिति भावः ॥ ततश्च मिळितयोः पद्ययोराक्षेपालङ्कारः ॥ १० ॥
 
अथ भवभूतिं प्रार्थयते---
 
यो मालतीमाधवयोगहृद्यः प्रायो रसालोचितभव्यपद्यः ।
आरामदेश: कवितालतानामामोददोऽयं भवभूतिरस्तु ॥ ११ ॥
 
य इति – यः भवभूति: । मालती नाम काचन नायिका माधवो नाम
तन्नायकः तयोर्योगः परिणयः तेन हृद्य: रमणीयः । "हृदयस्य प्रिय: "
इत्यनेन यत्प्रत्ययः । मालतीमाधवीयाख्यप्रकरणरूपकाचरणेन सकलसहृदयहृदयानन्दजनक इति भावः । अन्यत्र मालती वासन्ती लता माधवो वसन्तः तयोर्योगेन मेळनेन हृद्यः मनोहरः । तथा प्राय: प्रायेण । रसैः शृङ्गारादिभिः