2023-04-06 02:50:39 by ambuda-bot
This page has not been fully proofread.
रुक्मिणीकल्याणे सव्याख्याने
प्रीत्यतिशयम् । न विधत्ते न कुरुते । सर्वेषामानन्दाधिगमो दृश्यत एवेति भावः ।
अत्र विशेष्यविशेषणैस्सर्वैरप्यप्रकृतशुकवृत्तान्तप्रतीत्या प्रकृताप्रकृतश्लेषो ध्वनि-
रित्यन्ये । उपेन्द्रवज्रावृत्तम् ॥ ८ ॥
२०
एवमपरिमेयमहिमातिशयान्महर्षीस्तदुपन्यस्तनिखिलश्रुतिशिरस्सारभरिता-
न्महाप्रबन्धांश्चानुसन्धाय सांप्रतं कविकुलतिलकं कालिदासं प्रस्तौति
-
उदञ्चितोच्चावचरागकालीवीटीरसासारविवर्तमूर्तिः ।
सितायते मुक्तिरहो यदीया चित्ते स जागर्ति चिरं कवीन्द्रः ॥९॥
उदवितेति - उदञ्चितः उद्भूत: उच्चावच: नानाविध: क्षणं बिम्ब-
फलतुल्य: क्षणंजपाकुसुमसम: ततश्चेन्द्रकोपोपम इत्येकस्यैव बहुविधत्वात् ।
राग: लौहित्यं यस्य तादृशस्य कालीवीटी रसासारस्य देवीप्रदिष्टताम्बूलरसधारा-
याः प्रसादपरवशमातङ्गोमुखकमलविनिर्गत्वरस्य प्रणतप्रही भूतकाळिदासवदन-
परिगृहीतस्येति भावः । विवर्ता रूपान्तरात्मिका मूर्तिः वाग्झरी स्वरूपं
यस्यास्तादृशी । देवीविश्राणितवीटीरसस्यैव कवितारूपतया परिणतत्वादिति
भावः । यदीया काळिदाससम्बन्धिनी । सूक्तिः सरसमधुरा वाणी । सितायते
शर्करावदाचरति । सितायते श्वेतीभवतीति च व्यज्यते । सिताशब्दादाचारार्थे
क्यङ् । अहो इत्याश्चर्ये । अतिलोहितवीटीरसमूर्तेर्धवलीभवन मद्भुतमित्यर्थः । सः
कवीन्द्रः काळिदासः । चित्ते हृदये । ममेति शेषः । चिरं जागर्ति सदा
प्रतिवसति । सन्ततं तदनुसन्धानपरोऽहमिति भावः । अत्र वीटीसमर्पण-
समनन्तरमेव कालिदासमुखादतिमधुरतर कवितामृतोद्भिरणेन निमित्तेन वीटीरस
एवं साहितीविवर्तीपादानतयाध्यवसीयते । स च वीटीरस एव अल्पपात्र-
परिपूरितबहूदकप्रत्यावर्तनवद्वाग्झरीरूपेण प्रावर्ततेति वीटीरसाभेदसंभावनारूपो-
त्प्रेक्षानुप्राणितोऽतिलोहितस्य धवलीभवनरूपविरोधस्य शर्करायत इत्याभासी-
करणरूपो विरोधाभासः । स च शर्करावदाचरतीत्युपमासापेक्षेति सङ्करः ।
अत्रेन्द्रवज्रोपेन्द्रवज्रयोः प्रस्तारात्र्यवहितयोर्मेळनादुपजातिवृत्तम् । एवमन्यत्रा-
ध्यूह्यम् ॥ ९ ॥
43