2023-04-06 02:50:38 by ambuda-bot
This page has not been fully proofread.
प्रथमस्सर्गः
२९
वासनया चरितेन आढ्या पूर्णा । विशेषात्तच्चरितप्रतिपादिकेति भावः । अन्यत्र
भारतया भरततन्त्रविषयिण्या वासनया बहुतराभ्यासदृढीकृतसंस्कारेण आढ्या
अन्तरिता । लासिकी नर्तकीव । दीव्यति प्रकाशते । द्योतनार्थकाद्दीव्यतेः कर्तरि
लट् । सकलजगद्विख्याता भवतीति भावः । उपमालङ्कारः श्लेषानुप्राणित इति
सङ्करः । अत्र चतुर्थपादे उपेन्द्रवज्रालक्षणादुपजातिवृत्तम् । अन्ये तु सा भारती
दीव्यतीति पाठमाहुः ॥ ७ ॥
अथ पूर्वोक्तक्रमानुरोधेन परमभागवतस्याजन्मब्रह्मनिष्ठस्य शुकस्य वाणी-
मभिष्टौति-
अनन्तशाखागमपक्षपातजुषः प्रकृत्या हरितत्त्वभाजः ।
शुकस्य वाणी सुकृतैकलभ्या न कस्य वानन्दभरं विधत्ते ॥ ८ ॥
.
अनन्तेति – अनन्ता: बह्रयः शाश्वता वा शाखा : काठकादयः येषां
तेषु आगमेषु पक्षपातं विश्वासं अवैदिकेषु जिहासां चेति भावः । जुषति प्राप्नो-
तीति तादृशस्य । अन्यत्र अनन्ताः अपरिमेया: शाखा: विटता येषां तेषु
आगमेषु वृक्षेषु पक्षाभ्यां छदाभ्यां पातं प्राप्ति जुषतीति तादृशस्य । प्रकृत्या
स्वभावेन जन्मनैवेत्यर्थः । हरे: पुरुषोत्तमस्य तत्त्वं स्वरूपम् भजति अव
गच्छतीति तादृशस्य गुरूपसर्पणादिकमन्तरा स्वतःसंपन्न ब्रह्मज्ञानस्येति भावः ।
अन्यत्र प्रकृत्या जातिस्वभावात् । हरितत्वं श्यामवर्णत्वम् भजतः । शुकस्य-
शुकाख्य ब्रह्मर्षेः कीरस्य च । सुकृतेन पुण्येन एकेन केवलेन लभ्या
प्राप्या । पुण्यवतां सुलभा पापिनामलभ्येत्यर्थः । अनेकजन्मसंपादितसुचरित
परिपाकेनैव भागवतपरिशीलनप्रवृत्तिर्भवतीति भावः । अन्यत्र सुकृतेन शुकस्यैव
पूर्वकृतपुण्यविशेषजनितवासनावशेनेति भावः । लभ्या प्राप्या । अकृतसुकृतानां
कीराणां वचनरचनाभावस्य दृष्टचरत्वादिति भावः । यद्वा सुष्टु कृतं करणं
शिक्षाविशेषः तेनैकेनैव लभ्या न पुनः स्वच्छन्दवनचारिणामिति भावः । वाणी
भागवतरूपा प्राधान्येन भगवच्चरितप्रपञ्चनरूपा कीरवाणी च । कस्य वा
आनन्दभरं स्वात्मानन्दाधिगमं ब्रह्मावगतिमिति यावत् । अन्यत्र आनन्दभरं