This page has been fully proofread once and needs a second look.

वल्मीकजन्मानं निरतिशयप्रतिभाप्रतिपादनेन निखिलकविकुलसार्वभौममा कलय्य तदारचितमपि रामायणमप्यखिलोपलालनीयं अतानीतू सैषा ममापि मनीषाविशेषविश्राणनेनानुग्रहमारचय्य मदीयमपीदं काव्यं सर्वोपादेयमातनोत्विति प्रार्थनाभिव्यज्यते । अत्र भारत्या अभिसारिणी- साम्यवर्णनादुपमा । सा च सच्चरित्रांप्यभिसारिणीवेति विरोधस्य छन्दश्शास्त्रीयवृत्तपरतया परिहाराद्विरोधाभासेन, काननाळिरिति सुवृत्तेति च सभङ्गभङ्गश्लेषाभ्यां चानुविद्धेति सङ्करः ॥६॥
अथ मूर्तित्रयवेदत्रयस्वरत्रयव्याहृतित्रयलोकत्रयतेजस्त्रयाग्नित्रयादिवदुत्पत्ति-
क्रमानुसारात्सर्वलोकप्रसिद्धानां रामायणभारतभागवतानां महाप्रबन्धाना- मन्यतमस्य कर्तु: संस्मृताववसरसङ्गयानुपदबुध्यारूढस्य भगवन्नारायणांशस्य व्यासस्य स्वरूपतः प्रतिपादनं महासाहसं मन्वानस्तदीयां महाभारताख्यां भारतीमनुसन्धत्ते-

उत्तालशब्दोचितचारुपादन्यासा विचित्राभिनयव्यवस्था
वैयासिकी भारतवासनाढ्या सरस्वती[^1] दीव्यति लासिकेव ॥७॥

उत्तालेति - उत्तालानां गम्भीराणां शब्दानाम् । उचित: अनुरूपः । अत
एव चारु: रमणीयः । तत्तद्रसानुगुणयोः प्रयोगादास्वादनीय इति भावः ।
पादानां पद्यचरणानाम् न्यासो विन्यसनं यस्यां सा । अन्यत्र उत् उद्गतानाम्
उदितानामिति यावत् । अभिनेयतत्तद्विशेषद्योतकतया प्रपञ्चितानामिति भावः । ताळशब्दानां कांस्यवाद्यध्वनीनाम् उचिताः तदानुगुण्येन प्रपञ्चिताः अत एव चारवः अवैषम्यादतिमनोहरा: पादन्यासा: चरणविक्षेपा यस्यास्तादृशी । तथा विचित्रा: विस्मयनीयाः अभिनयस्य तत्तदुपाख्यानस्य व्यवस्था: विन्यसनानि यस्याम् । अन्यत्र विचित्राणां नानाविधानां शृङ्गारादिरसाभिव्यञ्जकतया सात्त्विकाङ्गिकाद्यनेकभेदवतां अभिनयानां अनुकरणानां व्यवस्था विवेचनं यस्यां तादृशी । यद्वा विचित्रा प्रयोक्तृ- चातुर्यानुरोधादत्याश्चर्यकारिणी अभिनयानां व्यवस्थेति पूर्ववत् । तथा भारतानां भरतवंशजानां युधिष्ठिरादीनां
 
[^1] सा भारती is another reading.