2023-04-06 02:50:38 by ambuda-bot
This page has not been fully proofread.
१८
रुक्मिणीकल्याणे सव्याख्याने
वल्मीकजन्मानं निरतिश्यप्रतिभाप्रतिपादनेन निखिलकविकुलसार्वभौममा कलय्य
तदारचितमपि रामायणमप्यखिलोपलालनीयं अतानीत् सैषा ममापि मनीषा-
विशेषविश्राणनेनानुग्रहमारचय्य मदीयमपीदं काव्यं सर्वोपादेयमातनोत्विति
प्रार्थनाभिव्यज्यते । अत्र भारत्या अभिसारिणीसाम्यवर्णनादुपमा । सा च
सच्चरित्राप्यभिसारिणीवेति विरोधस्य छन्दश्शास्त्रीयवृत्तपरतया परिहाराद्विरोधा-
भासेन, काननाळिरिति सुवृत्तेति च सभङ्गाभङ्गश्लेषाभ्यां चानुविद्वेति सङ्करः ॥६॥
अथ मूर्तित्रयवेदत्रयस्वरत्रयव्याहृतित्रयलोकत्रयतेजस्त्रयाग्नित्रयादिवदुत्पत्ति-
क्रमानुसारात्सर्वलोकप्रसिद्धानां रामायणभारतभागवतानां महाप्रबन्धानामन्यतमस्य
कर्तु: संस्मृताववसरसङ्गयानुपदबुध्यारूढस्य भगवन्नारायणांशस्य व्यासस्य
स्वरूपतः प्रतिपादनं महासाहसं मन्वानस्तदीयां महाभारताख्यां भारती-
मनुसन्धत्ते
उत्तालशब्दोचितचारुपादन्यासा विचित्राभिनयव्यवस्था ।
वैयासिकी भारतवासनाढ्या सरस्वती' दीव्यति लासिकेव ॥ ७ ॥
उत्तालेति – उत्तालानां गम्भीराणां शब्दानाम् । उचित: अनुरूप: । अत
एव चारु: रमणीयः । तत्तद्रसानुगुणयोः प्रयोगादास्वादनीय इति भावः ।
पादानां पद्यचरणानाम् न्यासो विन्यसनं यस्यां सा । अन्यत्र उत् उगतानाम्
उदितानामिति यावत् । अभिनेयतत्तद्विशेषद्योतकतया प्रपञ्चितानामिति भावः ।
ताळशब्दानां कांस्यवाद्यध्वनीनाम् उचिताः तदानुगुण्येन प्रपञ्चिताः अत
एव चारवः अवैषम्यादतिमनोहरा: पादन्यासा: चरणविक्षेपा यस्यास्तादृशी ।
तथा विचित्रा: विस्मयनीयाः अभिनयस्य तत्तदुपाख्यानस्य व्यवस्था: विन्य-
वनानि यस्याम् । अन्यत्र विचित्राणां नानाविधानां शृङ्गारादिरसाभिव्यञ्जकतया
सात्त्विकाङ्गिकाद्यनेक भेदवतां अभिनयानां अनुकरणानां व्यवस्था विवेचनं
यस्यां तादृशी । यद्वा विचित्रा प्रयोक्तृचातुर्यानुरोधादत्याश्चर्यकारिणी अभिनया-
नां व्यवस्थेति पूर्ववत् । तथा भारतानां भरतवंशजानां युधिष्ठिरादीनां
1
सा भारती is another reading.