2023-04-06 02:50:38 by ambuda-bot
This page has not been fully proofread.
१६
रुक्मिणीकल्याणे सव्याख्याने
"
रदेति - - सिन्धुरेन्द्रो गजश्रेष्टो विनायक इति यावत् । गजवदनत्वेन
सर्वोन्नतत्वाच्च सिन्धुरत्वोपचार: ।रदाग्रेण दशनाञ्चलेन संचूर्गितस्य
मसृणिततयोद्धृष्टस्य रत्नसानो: सुमेरो: मेरुस्थितपद्मरागमणीनामिति भावः
"रत्नसानुस्सुरालय: इत्यमरः । रजसां परागाणाम् भरै: पु: । केवल-
लौहित्यसारात्सिन्दूराद्वर्णतश्चाकचक्येन चातिशयितैरिति भावः । अङ्कजुष: स्वो-
त्सङ्गाधिष्ठिताया इत्यर्थः । रमण्या : प्रियायाः, वल्लभाख्याया इति भावः ।
सीमन्तसीमायाः अलकावधिदेशस्य अन्तरं अवकाशम् । "अन्तरमवकाशावधि-
परिमाणे " इति केशवः । सीमन्त इति शकन्ध्वादित्वात्पररूपम् । ललाटान्त-
मध्यदेश इति यावत् । सिन्दूरितं असिन्दूरं सिन्दूरं सम्पद्यमानं काश्मीराङ्कित-
मित्यर्थः । आदधानः कुर्वन् सन् । आङ्पूर्वाद्दधातेः कर्तरि आत्मनेपदे शानच् ।
दीव्यति विहरति । अनितरसुलभातिशयितालङ्कारेणाधिकप्रीतिमुत्पादयन्त्रिलसतीति
भावः । वल्लृभागणपतेरेव क्षिप्रप्रसादन इति नाम्ना शीघ्रवरप्रदातृत्वस्य सर्वसंप्रति-
पन्नतया तथात्वेनेह सङ्कीर्तनमिति भावः । अत्र सिन्दूरीकरणस्वरूपयोग्यत्वाभि
प्रायगर्भस्य रत्नसानुपदस्य विशेष्यवाचकस्य सन्निवेशात्परिकराङ्कुरालङ्कारः । न
चात्र रत्नसानो रजोभरांशे विशेषणत्वात्परिकर एवेति वाच्यम् । "साभिप्राये विशे
षणे" इति परिकरलक्षणे विशेषणपदस्या भेदरूपसामानाधिकरण्येन क्वचिजात्यादि-
वाचकपदान्वयन एव प्रतिपादनात् । इह तु सम्बन्वसामान्यपरषष्ठीतत्पुरुषा-
श्रयणाद्रजोभरांशे उक्तविधया विशेषणत्वाभावेन तस्य स्वतो गुणवाचकत्वेऽपि
जात्यादिवा चकपदान्तरासान्निध्यात्स्वतन्त्रतया विशेष्यवाचकत्वस्यैव निराबाध-
त्वादित्यलं विस्तरेण । उदात्तालङ्कारः । परिकराङ्कुरेण संसृष्टिरित्यन्ये ॥ ५ ॥
अथ स्वप्रारिप्सितप्रबन्धस्य विद्याप्रपञ्चरूपतया निखिलविद्यालम्बनभूत-
सरस्वती प्रसादसापेक्षतां निश्चित्य तस्याः प्रसादमाशासानस्तदारचितनिजभक्त
जनानुग्रहप्रतिपादनपुरस्सरं भूमौ भारत्याः प्रथमावतारसरणि भगवन्तं वल्मीक-
जन्मानं मुनिमेवादौ प्रार्थयते-
उन्मीलयेदुक्तिभरं समग्रं वल्मीकजन्मा कविवल्लभो मे ।
वाणी सुवृत्ताप्यभिसारिणीव वत्रे यमुल्लङ्घितकाननाळि: ॥ ६ ॥