This page has been fully proofread once and needs a second look.

मुधेति - गर्भगृहे वासभूमौ । "गर्भागारं वासगृहं" इत्यमरः । मुधा व्याजेन । रुदन् विलपन् सन् । वस्तुतः शोकातीतस्य विलापनिमित्ताभावेऽपि
स्वावलम्बितशिशुवेषसमर्थनाय कपटरोदनं राधासमागमसङ्केतभूतमाचर- न्निति भावः । तथा आदातुं गृहीतुम् । समेतां प्राप्ताम् । रुदन्तमुपगृह्य समाश्वासयन्तीमित्यर्थ: । रोदनाख्यसङ्केतं विदित्वा सत्वरमागत्य कराभ्यामु- पगृहीतवतीमिति भावः । राधां गोपिकाम् । हठेन बलात्कारेण । औत्सुक्येनेति भावः । आलिङ्गय परिष्वज्य । अमुष्या राधायाः । कुचयो: स्तनयो: । नखाङ्कान् नखरविलेखनानि । कुर्वन् तन्वंश्च । मायाशिशु: मायया कपटेन शिशु: मायापरिगृहीतशिशुवेषः । उक्तविधया स्वाभिमतराधा- सङ्गलोलोऽपि प्रेयसीसमाह्वानतदाश्लेषणतत्कुचमर्दनानि सर्वलोक- प्रत्यक्षमनुतिष्ठन्नपि सर्वस्यापि स्वचेष्टितस्य शिशुसाधारण्यसंपादनपूर्वकं
शिशुचरितेन स्वाचरितविटचरितमपलपन्निति भावः । मङ्गलं शुभम् । सर्वाभीष्टोपलक्षकमिदम् । आतनोतु विस्तारीकरोतु । आङ्पूर्वात् "तनु विस्तारे " इति धातोर्लोट् । अत्र मायाशिशुरिति शिशुत्वस्य मिथ्यात्वप्रतीत्या स्ववशमायत्वप्रतीत्या च जगदीशत्वेन स्वाभीष्टवितरणसमर्थत्वाभिव्यक्त्या च साभिप्रायविशेष्यकत्वात्परिकराङ्कुरालङ्कारः । तस्य सन्नन्त- विशेषणाभ्यां समर्थनाद्वाक्यार्थहेतुककाव्यलिङ्गेन बालस्वभाववर्णनरूप- स्वभावोक्त्या च सङ्करः । नन्वत्र "लट: शतृशानचावप्रथमासमानाधिकरणे" इति सूत्रेण मायाशिशुसामानाधिकरण्ये शतृप्रत्ययाप्रवृत्त्या क्रियान्वयस्य वक्तव्यत्वेऽपि मङ्गलाचरणक्रियायां रोदनस्य कुचयोर्नखाङ्काचरणस्य चान्वयानुपपत्तिः । न च प्रथमासमानाधिकरणेऽपि क्वचिद्भवतीत्युक्त्या "सन् देवदत्त : " इत्यप्युदाहृतमेवेति वाच्यम् । गुणक्रियावाचकादेव शतृ- शानचोर्निषेधः । न पुनर्द्रव्यजातिवाचकादित्यत्रैव तत्तात्पर्यादिति चेत्सत्यम्। मायाशिशुरित्यस्य मायया शिशुत्वमभिनयन्नित्यर्थस्यैव विवक्षया तदभिन- याचरणक्रियान्वयाभ्युपगमेनानुपपत्त्यभावादित्यलं पल्लवितेन ॥ ४॥
अथ सकलान्तरायसन्तमसमार्ताण्डं वेतण्डाननं विनायकमभिष्टौति-

रदाग्रसञ्चूर्णितरत्नसानुरजोभरैरङ्कजुषो रमण्याः ।
सीमन्तसीमान्तरमादधानस्सिन्दूरितं दीव्यति सिन्धुरेन्द्रः [^1] ॥ ५ ॥
 
[^1] G. reads सिन्धुरेन्दुः ।