This page has been fully proofread once and needs a second look.

१४
 
रुक्मिणीकल्याणे सव्याख्याने
 
परिगणय्य [आहुः] । वाचातीतमतो मतो मदुदितोऽप्यर्थः सतां साम्प्रतम् ।

महिमाख्येति विशेषप्रार्थनाभिव्यक्ता ध्वनिः ॥ २ ॥
 

अथ विष्णुमायामय्या जगज्जनन्या लक्ष्म्या अवताररूपां जानकीं

प्रसङ्गात्प्रार्थयति-
-
जयाय भूयाज्जनकात्मजा सा कुचेन कूलङ्कषगौरवेण ।

पतिव्रतौचित्यपरा पुरारिशरासगर्वं समकोचयद्या ।॥ ३ ॥
 

जयायेति
-
 
जयायेति –
या वक्ष्यमाणलक्षणा जनकात्मजा जानकी । पत्यु:युः नाय-
कस्य व्रतमेव व्रतं यासां तादृशीनां स्वनायकानुष्ठितमेव व्रतं स्वयमनुतिष्ठन्तीना-

मित्यर्थः । तासां यत् औचित्यं उचितकर्मानुष्ठाटानमित्यर्थः तस्मिन् परा जाग
-
रूका सती स्वनाथेन श्रीरामचन्द्रेणानुष्ठितमेव स्वयमपि कुर्वाणा सतीत्यर्थः
कूलङ्कषं परिपूर्णम् गौरवं पृथुत्वं यस्य तादृशेन कुचेन स्तनेन साधनेन ।

पुरारिशरासस्य सुमेरो: । त्रिपुरसंहारावसरे महामेरो: शिवचापत्वादिति भावः
गर्व
गर्वं मत्तो गुरुतरः कोऽपि नास्तीत्यभिमानम् समकोचयत् व्यपोहयत्। संपूर्वात्
 
" कुच शब्दे तारे " इति धातोः सङ्कोचार्थाण्णि- जन्ताल्लुङ् । ततोऽप्यस्या-
तिपृथुतया तद्दर्शनमात्रेण मेरुःरु: स्वाभिमान- मत्यजदिति भावः । जनकसदसि श्रीराम-
भद्रेण स्पर्शमात्रेण शिवधनुषि भग्ने तस्य महासारत्वदुरारोपत्वादिकृतगर्वभङ्गस्य
कृतत्वेन तादृशेन भर्त्रा समाचरितमेव स्वयमनुष्ठातुं शिवधनुर्गर्वसङ्कोचमुक्तविधया
स्वयमध्

स्वयमप्
यकरोत्किमिति भावः । सा एवं पातिव्रत्यपरिपालनधुरंधरा जानकी
जयाय विजयाय सङ्कल्पितसकलार्थलाभायेति भावः । भूयात् स्यात् । अत्र

कविकल्पिते सीताकृतहरधनुर्गर्वसङ्कोचे स्वभर्तृकृतकर्मानुष्ठानपरत्वं न हेतुरिति
तस्य तद्धेतुत्वप्रतिपादनेनासिद्धविषया हेतूत्प्रेक्षा व्यञ्जकाभावादूद्गूढा । कूलङ्क-
षगौरवेणेति साभिप्रायविशेषण विन्यासात्परिकरसङ्कीर्णा ॥ ३ ॥
 

अथ बालकृष्णमधिकृत्य श्रेयः प्रार्थयति -
सु

मु
धा रुदन्गर्भगृहे' [^1] समेतामादातुमालिङ्गय हठेन राधाम् ।

कुर्वन्नखाङ्कान्कुचयोरमुष्या मायाशिशुर्मङ्गलमातनोतु ॥ ४ ॥
 

 
 
[^1]
G. manuscript reads मुग्धारुदद्गर्भगृहे etc.