2023-04-06 02:50:38 by ambuda-bot
This page has not been fully proofread.
१४
रुक्मिणीकल्याणे सव्याख्याने
परिगणय्य [आहुः] । वाचातीतमतो मतो मदुदितोऽप्यर्थः सतां साम्प्रतम् ।
महिमाख्येति विशेषप्रार्थनाभिव्यक्ता ध्वनिः ॥ २ ॥
अथ विष्णुमायामय्या जगजनन्या लक्ष्म्या अवताररूपां जानकीं
प्रसङ्गात्प्रार्थयति-
जयाय भूयाज्जनकात्मजा सा कुचेन कूलङ्कषगौरवेण ।
पतिव्रतौचित्यपरा पुरारिशरासगर्व समकोचयद्या ।॥ ३ ॥
-
जयायेति – या वक्ष्यमाणलक्षणा जनकात्मजा जानकी । पत्यु: नाय-
कस्य व्रतमेव व्रतं यासां तादृशीनां स्वनायकानुष्ठितमेव व्रतं स्वयमनुतिष्ठन्तीना-
मित्यर्थः । तासां यत् औचित्यं उचितकर्मानुष्ठानमित्यर्थः तस्मिन् परा जाग
रूका सती स्वनाथेन श्रीरामचन्द्रेणानुष्ठितमेव स्वयमपि कुर्वाणा सतीत्यर्थः ।
कूलङ्कषं परिपूर्णम् गौरवं पृथुत्वं यस्य तादृशेन कुचेन स्तनेन साधनेन ।
पुरारिशरासस्य सुमेरो: । त्रिपुरसंहारावसरे महामेरो: शिवचापत्वादिति भावः
गर्व मत्तो गुरुतरः कोऽपि नास्तीत्यभिमानम् समकोचयत् व्यपोहयत । संपूर्वात्
कुच शब्दे तारे" इति धातोः सङ्कोचार्थाण्णिजन्ताल्लुङ् । ततोऽप्यस्या-
तिपृथुतया तद्दर्शनमात्रेण मेरुः स्वाभिमानमत्यजदिति भावः । जनकसदसि श्रीराम-
भद्रेण स्पर्शमात्रेण शिवधनुषि भग्ने तस्य महासारत्वदुरारोपत्वादिकृतगर्वभङ्गस्य
कृतत्वेन तादृशेन भर्त्रा समाचरितमेव स्वयमनुष्ठातुं शिवधनुर्गर्वसङ्कोचमुक्तविधया
स्वयमध्यकरोत्किमिति भावः । सा एवं पातिव्रत्यपरिपालनधुरंधरा जानकी ।
जयाय विजयाय सङ्कल्पितसकलार्थलाभायेति भावः । भूयात् स्यात् । अत्र
कविकल्पिते सीताकृतहरधनुर्गवसङ्कोचे स्वभर्तृकृतकर्मानुष्ठानपरत्वं न हेतुरिति
तस्य तद्धेतुत्वप्रतिपादनेनासिद्धविषया हेतूत्प्रेक्षा व्यञ्जकाभावादूढा । कूलङ्क-
षगौरवेणेति साभिप्रायविशेषणविन्यासात्परिकरसङ्कीर्णा ॥ ३ ॥
अथ बालकृष्णमधिकृत्य श्रेयः प्रार्थयति -
सुधा रुदन्गर्भगृहे' समेतामादातुमालिङ्गय हठेन राधाम् ।
कुर्वन्नखाङ्कान्कुचयोरमुष्या मायाशिशुर्मङ्गलमातनोतु ॥ ४ ॥
। G. manuscript reads मुग्धारुदगर्भगृहे etc.