This page has not been fully proofread.

प्रथमस्सर्गः
 
१३
 
·
 
गुणोपलक्षितो महिमा भूमा भगवतो विष्णोस्तेजोमय इति भावः । अणिमाद्यष्ट-
भूतिष्वन्यतमा महिमाख्या भूतिरित्यर्थः । घनश्रीरिति रूपसाम्यमुक्त्वा
शीलसाम्यमपि श्लोषभङ्गयाभिधत्ते । स्थाणुना केवलं परमेश्वरमात्रेण । आतता
आरोपिता ज्या मौर्वी यस्मिन् । शिवातिरिक्तेन केनाप्यारोपयितुमशक्यमिति
भावः । तेनातिदृढत्वं व्यज्यते । मेघपक्षे, स्थाणुना केवलं शाखादिशून्येन
स्कन्धावशेषेण वृक्षमात्रेण । जातावेकवचनम् । ईदृशवृक्षत्वजातिमात्रेणेयर्थः ।
तेन लतागुल्मादिशून्यत्वप्रतीत्या अतिचिरपरिचितानावृष्टिदूषितत्वं व्यज्यते ।
आतता व्याप्ता ज्या भूमियंत्रेत्यर्थः । "स्थाणू रुद्र उमापति: " " स्थाणुरस्त्री
ध्रुवश्शङ्कः : " " मौर्वी ज्या शिञ्जिनी " " क्षोणी ज्या काश्यपी क्षितिः " इति
चामर: । धन्ववरं चापवरं मरुदेशं च । "धनुश्चापौ धन्व " "समानौ मरुध-
न्वानौ" इति चामरः ! क्षणात् क्षणकालमात्रेण । तेन विलम्बानपेक्षत्वम्, तेन
क्लेशाभावः, तेन च महासत्त्वगुणत्वं च व्यज्यते । सभङ्गं भङ्गेन छेदेन सहितम्
त्रुटितमिति यावत् । अन्यत्र भङ्गैस्तरङ्गैस्सहितम् । तन्वन् कुर्वन्सन् सीतायाः
जानक्या: शुभाङ्कुराणां मङ्गलोदयानाम् समृद्धि पूर्तिम् । आधात् अकरोत् ।
शिवधनुर्भङ्गेन निरतिशयं निजशौर्य प्रपञ्चयित्वा वीर्यशुल्कां सीतामुपयेम इति
भावः । यतो नारीणां परिणयमूला एव सर्वास्संपद इति भावः । अन्यत्र सीतायां
लाङ्गलमार्गे । "सीता लाङ्गलपद्धतिः" इत्यमरः । शुभानां क्षेमङ्कराणाम् अङ्क-
राणां सस्यप्ररोहाणाम् समृद्धि पूर्तिम् । आधात् । आङ्पूर्वात् " डुधाञ्धारण-
पोषणयो: ' इति धातोर्लुङ् । निरन्तरधारासेचनेन मरुदोषमपोह्य सकलसस्य परि-
पूर्णमतानीदिति भावः । यत्तदोर्नित्यसम्बन्धात् स इत्यध्याहियते । स उक्तविशेषण-
विशिष्टः श्रीरामः । भूत्यै संपदे सर्वविधसम्पत्त्यै । भूयात् सर्वाभीष्टप्रदोऽस्त्विति
भावः । महिमाख्यनिधिः सर्वसिद्धिं दद्यादिति च व्यज्यते । अत्र घनश्रीरिति वाचक-
लुप्तोपमा । सा च श्लेषसंपादितसमानधर्मेति श्लेषसङ्कीर्णा । क्षणमात्रेण तरङ्गितत्वस्य
तन्वन्निति शतृप्रत्ययलब्धसभङ्गीकरणतुल्यकालमङ्कुर समृद्ध्याधानस्य चायोगेऽपि
योगवर्णनारूपातिशयोक्तिगर्भिता । प्राचीनाः खलु सङ्करस्त्रिविध इत्याचख्युः
अङ्गाङ्गितासन्देहपदोदितत्वभिदया । केचित् समत्वादप्यङ्गाङ्गित्वमनेकधा
1 The manuscript wrongly reads शस्त्रप्ररोहाणाम् .