2023-04-06 02:50:37 by ambuda-bot
This page has not been fully proofread.
रुक्मिणीकल्याणे सव्याख्याने
अत्र यद्यपि प्राथमिकपद्यादौ नभोदेवताकशून्यत्वफलकस्तगणो न
प्रयोगमर्हति । तदुक्तं – "वर्ण गणं च काव्यस्य मुखे कुर्यात्तु शोभनम् "
इति तथाप्यादौ वकारस्यामृतबीजस्य भद्रवाचकस्य सन्निवेशात् तथाविधस्यापि
तगणस्य मध्ये लक्ष्मीवाचकमाशब्दघटितत्वात्तस्य च पादचतुष्टये तुल्यतया
सन्निवेशाच गणप्रयुक्तो दोषो न सम्भवतीति हृदयं वेदितव्यम् । तदुक्तं
"स्वेष्टदेवादिमन्त्रे वा बीजे वा मङ्गलार्थके । प्रबन्धादौ प्रयुक्ते तु गणदोषो न
विद्यते" इति ॥ अन्यत्रापि "देवतावाचकारशब्दा ये स्युभंद्रादिवाचकाः ।
ते सर्वे नैव दुष्यन्ति [गणतो j वर्णतोऽपि वा" इति । अत एव कालिदासकृतौ
कुमारसम्भवे-- अस्त्युत्तरस्यामिति; भोजराजकृतौ चम्पूरामायणे लक्ष्मीं तनो-
त्वित्यादिपद्येषु शून्यत्वफलकस्य तगणस्य; तथा माघकाव्ये – श्रियः पतिरिति ;
भारविकृते किरातार्जुनीये – श्रियः कुरूणामिति सूर्यदेवताकस्य रोगफलकज-
गणस्य च प्रयोग इत्यादिः प्राचीनानां प्रयोगोऽपि साधु सङ्गच्छते ॥ १ ॥
--
१२
इत्थं ईश्वरप्रार्थनानन्तरं लोके क्वचित्कृतेऽपि मङ्गले निर्विघ्नपरिसमाप्य-
दर्शनेन विघ्नबाहुळ्यस्यैव तन्निमित्तत्वावश्यंभावेन तथाविधविघ्नसन्देहेनाथ च
"ग्रन्थादौ स्वे [ष्टदैवं] च गुरूनपि कवीनपि । पूर्विकान् स्वं च राजानं देशं
कालं च कीर्तयेत्" इत्यभियुक्तसमाचरणेन तथाविधमेव बहुविधमङ्गळमा चर-
नादौ मनोवाक्कायकृतसर्वपापनिवर्तकं श्रीरामनाम्ना कृतावतारं भगवन्तं परमपुरुषं
प्रार्थयते -
यः स्थाणुना केवलमाततज्यं तन्वन्क्षणाद्धन्ववरं सभङ्गम् ।
सीताशुभाङ्कुरसमृद्धिमाधाद्भूत्यै स भूयान्महिमाघनश्रीः ॥२॥
य इति ॥ वनस्य सजलजलदस्येव श्री: शोभा यस्य तादृशः
नीलमेघश्यामल इत्यर्थः । तेन घनसमानशीलत्वमपि व्यज्यते । अन्यत्र वना-
निरन्तरा अपरिक्षीयमाणेति भावः; श्रीः संपत् येन तादृशः । महिमनामक सिद्धौ
सम्प्राप्तायां सर्वासामपि संपदां परिपूर्णत्वसम्भवादिति भावः । यो वक्ष्यमाण-
1 The manuscript reads रविकृतस्य.