2023-04-09 16:17:47 by jayusudindra
This page has been fully proofread once and needs a second look.
परिहरणीयतया परिचिन्तितस्यापि विप्रयोगस्य खेदावहतया विप्रलम्भशृङ्गा रश्च । प्रबन्धप्राथमिकपद्यप्रतीयमानाभ्यां च ताभ्यां प्रबन्धप्रतिपिपादयिषि- तयो रुक्मिणीवासुदेवालम्बनयोस्तयोरभिव्यक्तिश्च । अत्र स्त्रीपुंसलाञ्छना- न्तराळवर्तित्वक्रमं कृशत्वस्तम्भाकारत्वादिधर्मसम्बन्धेन निमित्तेन रोमावल्यां सीमाशिलातादात्म्यसम्भावना स्वरूपोत्प्रेक्षा । "यत्रान्यधर्म- सम्बन्धादन्यत्वेनोपतर्कितम् । प्रकृतं हि भवेत्प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते ॥" इति लक्षणात् ॥
नन्विवशब्दस्य सादृश्यवाचकतया उपमैवास्तु । मैवम् । तर्हि यत्र
क्वचनावस्थितसीमाशिलासाम्यमात्रे वक्तव्ये स्त्रीपुंसलाञ्छनान्तराळ- वर्तननिमित्तकतत्तल्लाञ्छनसीमाव्यवहारोपशमार्थत्वादिविशेषग्विषण प्रयासवैयर्थ्यापातात् । अत एव "यदायमुपमानांशो लोकतस्सिद्धिमृच्छति । तदोपमैव येनेवशब्दस्सादृश्यवाचकः ॥ यदा पुनरसौ लोकादसिद्धः कविकल्पितः । तदोत्प्रेक्षैव येनेवशब्दस्संभावनापरः ॥" इति प्राचीन प्रसिद्धिः । इह तु सीमाशिलामात्रस्य लोकसिद्धत्वेऽप्युक्तविशेषण- विशिष्टत्वेन रूपेण कविनैव कल्पितत्वात् । न चास्यास्सीमाविभागो न फलमित्यफले फलत्वकल्पना फलोत्प्रेक्षा किं न स्यादिति वाच्यम् । रोमावल्यास्सीमाशिलात्वसिद्धिमन्तरा तस्याः फलजिज्ञासानुदयेन
तत्फलत्वेन सीमाविवादशमनस्योत्प्रेक्षणीयत्वासंभवात् । सोमावतंस इति
विशेष्यवाचकस्य पूर्वोक्ततापहरणक्षमत्वाभिप्रायगर्भतया परिकराङ्कुरेण तथा प्रतिपादं द्वितीयवर्णस्य मकारस्यावृत्त्या वृत्त्यनुप्रासरूपशब्दालङ्कारेण तिलतण्डुलन्यायेन मेलनात्संसृष्टि: । शब्दार्थालङ्कारयोरेकशब्दोपात्तत्वेनैक वाचकानुप्रवेशलक्षणस्सङ्कर इति केचित् । पर्यायासहिष्णुपदविन्यास एव तथाविधस्सङ्करो नान्यत्रेति तु परमार्थ: । इहैकाक्षरानुवृत्तावपि स्थान- विन्यासनैयत्यस्य विदग्धकृतित्वेन छेकानुप्रास एवेत्यपरे । एवं भगवद्विषये मङ्गले निष्पन्ने अर्धनारीश्वरधर्मेण तन्नामकस्य स्वगुरोरप्यनुस्मरणाद्गुरु- सञ्चिन्तनरूपमङ्गलान्तरमप्यनुनिष्पन्नं भवति ।अस्मिन्सर्गे प्रायेणेन्द्र- वज्रावृत्तम् । "स्यादिन्द्रवज्रा यदि तौ जगौ ग : " इति लक्षणात् । क्वचिच्च " उपेन्द्रवज्राजतजास्ततो गौ" इत्युक्तलक्षणोपेन्द्रवज्रा । क्वचिच्च द्वयोरनयोर्मेळने "अनन्तरोदीरितलक्ष्मभाज: पादा यदीया उपजातयस्ता:" इत्युक्तलक्षणोपजातिवृत्तमपि संभवति ।