This page has been fully proofread once and needs a second look.

रुक्मिणीकल्याणे सव्याख्याने
 
रोमावल्यवस्थानात् वामोर्ध्वभागयोरेव स्त्रीपुंसाकारतया तल्लाञ्छनविवाद-

र्मनार्थकसीमाशिलात्मतया सम्भाव्यमानया वामदक्षिणभागमध्यावस्थान स्यैव
वक्तुर्विवक्षागोचरत्वाच्च । रोमावली लोमपङ्क्तिः कर्त्री । वामा: कुटिलाः,
आमूलाग्रं प्रतिपदाकुञ्चिता इत्यर्थः । न पुनर्वलिताग्रभागा इत्यर्थः तथात्वस्या-
सुन्दरत्वात् । अलकाः कुन्तला यस्यास्तादृशी नारी; वल्लभ: प्रियः पुमान्;
तयोर्नारीनरयोर्भावौ स्त्रीत्वं पुंस्त्वं च तयोर्मुद्राश्चिह्नानि स्त्रीत्व- व्यञ्जकस्तन-
जघनादीनि तथा पुंस्त्वव्यञ्जकपीनवक्षस्त्वादीनि तासाम् सीमाया विश्राम
देशस्य विभागाय विविच्य प्रपञ्चनाय विवादोपशमफलि- केत्यर्थः । इन्द्रमणीशिलेव
इन्द्रमणीमया मरुत्वन्मणिरूपा शिला सीमोपल इव । "रत्नं मणिद्वयोः "
इत्यमरः । राजति दीव्यति । "राजूजृ दीप्तौ " इति धातोर्लट् । एतावत्स्त्रीचिह्वेन
भाव्यमेतावत्पुरुषचिह्नेनेति व्यवस्थापिका इन्द्रनीलमणिमयी सीमाशिला विधात्रा
विहिता किमिति भावः । स सोमावतंसश्चन्द्रशेखरः । सुखायानन्दाय,
सञ्चिन्तितस कलफललाभायेति भावः । भूयात् स्यात् । "भू सत्तायां " इति
धातोर्लिङ् । प्रजाप्रजननपालना- दिषु मातापित्रोस्सहाधिकारात्तथाविधेनैकेनैव
शरीरेण जगदुत्पत्त्यादिकम- भिव्यञ्जयन् देवोऽस्मानानन्दयत्विति भावः ।
सीमाविवादस्य तदुपशमस्य चोभयनिरूप्यतया विवादशमनार्थकसीमाशिलाया-
मुभयोः स्वामित्ववद्रोमा- वल्यामुभयचिह्नत्वं न पुनः श्मश्राश्वादिवदेकतरस्वाम्यमित्यपि
वेदितव्यम् ॥
 
"
 
१०
 

अस्मत्पितामह चरणास्तु सुखाय परमपुरुषार्थरूपाय मोक्षयेत्यर्थः । प्रा-

पञ्चिकस्य पशुपुत्रकलत्राद्युपभोगरूपस्य सर्वस्यापि सुखस्य क्षुत्तृष्णाकामो पशम-
रूपतया तत्र सुखशब्दस्य दुःखाभावमात्रपरस्य उपचरिततया सुखत्व व्यवहारेऽपि
निरन्तरनिरतिशयानन्दविष्फूर्तिरूपस्य मोक्षस्यैव स्वारसि- कार्थत्वात् । ततश्च
सोमश्चन्द्रोऽवतंसो यस्येति व्युत्पत्त्या आध्यात्मिकादिता- पत्रयापनयनक्षम-
श्चन्द्रशेखरो निःश्रेयसाय भूयादित्यभिप्रायमाहुः । अत्रार्थ ज्ञानपूर्वकत्वाच्छब्द-
प्रयोगस्यार्धनारीश्वरात्मकोमामहेश्वरविषयकः कविगतो रतिभावो व्यज्यते । तस्य
नारीनरात्मकैकशरीराङ्गीकारे प्रयोजनान्तराला- भेन तयोर्विश्लेषभीरुताया एव
हेतुत्वकल्पनावश्यंभावेन सम्मिळितत्व प्रतीत्या सम्भोगशृङ्गारो व्यज्यते । तथा