2026-03-09 04:43:36 by AdarshT
This page has been fully proofread once and needs a second look.
<verse>हृते कलियुगे वर्षैर्वेदाग्निग्रहसागरैः ।
यज्ञवेदेश्वरेणैषा कृता मौक्तिकमालिका ॥
<p>इह हि —
<verse>काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
<p>इति प्रामाणिकप्रसिद्ध्या पुण्यश्लोकगुणवर्णनरूपकाव्यस्य यशःप्रमुख
श्रीराजचूडामणिदीक्षितो नाम महाकवि : प्रारिप्सितप्रबन्धपरिसमाप्ति- परिपन्थिप्रत्यूहप्रत्याख्यानाय स्वाभीष्टदेवतात्मकं स्त्रीपुंसाकारैकशरीरा- वलम्बनेन स्वम्य जगज्जनकत्वादिकमभिव्यञ्जयन्तं भगवन्तमर्धनारीश्वरम् अधिकृय श्रेयःप्रार्थनरूपं मङ्गलमाचरन्स्वम्याग्रजन्मानमर्धनारीश्वर- नामानमात्मनो विद्यागुरुमप्यर्थादनुसन्धत्ते-
<verse>वामालकावल्लभभावमुद्रासीमाविभागेन्द्रमणीशिलेव ।
रोभावली राजति यस्य मध्ये सोमावतंसः स सुखाय भूयात् ॥१॥
<p>वामेति – यम्य प्रस्तूयमानस्य अर्धनारीश्वरस्येयर्थ: । मध्ये वामदक्षिण-
भागयोरन्तराळे न पुनर्वलग्ने रोमावल्या नाभेरूर्ध्व एवावस्थानेन मध्यावस्थिप्य भावात् । न चोर्ध्वापवर्गायास्सीमाशिलाया मूलावलम्बेनैवा वस्थानस्य वक्तव्यतया उर:पर्यन्ताक्रमणं प्रतिभासमात्रमेवेति वाच्यम् । देहावलम्बनेनार्धांशरूपतयातादृशसम्भावनानिमित्ततया मध्यशब्दवाच्य- वलग्नोध्वेगतनाभेः परत एव
</page>