This page has been fully proofread once and needs a second look.

प्रथमस्सर्गः
 
हृते कलियुगे वर्षेवेंषैर्वेदाग्निग्रहसागरैः ।

यज्ञवेदेश्वरेणैषा कृता मौक्तिकमालिका ॥
 

इह हि
 

काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।

सद्यः परनिवृतये कान्तासम्मिततयोपदेशयुजे ॥
 

 

इति प्रामाणिकप्रसिद्ध्या पुण्यश्लोकगुणवर्णनरूपकाव्यस्य यशःप्रमुखहुतरदृष्टादृष्ट-
फलोपधायकत्वे निश्चिते तत्रापि भगवच्चरितरूपत्वेन परमपुरुषार्थभूतमोक्षोपयोगि
भगवद्भक्त्युन्मेषं प्रति च प्रभुसम्मिताच्छब्द- प्रधानाच्च प्रत्यवायभीत्यःया प्रवर्तकाद्वेदात्
तथा सुहृत्म्मितेभ्योऽयंप्रधानेभ्यो हिताहितविचारसापेक्षतया प्रवर्तकेभ्यः
पुराणादिभ्यश्च कान्तासम्मितस्य रसप्रधानस्य श्रोतुस्सरसतापादनेनांनाविचारत-
स्सरभस प्रवर्तकस्य काव्य- स्याभ्यर्हितत्वेन सहृदयानामात्मनश्च तथाविधनिखिल
पुरुषार्थानाशासानो लोकानुग्रहाय वसुदेवात्कृतावतारस्य भगवतः कृष्णस्य
प्
राधान्येनं रुक्मिगीणीपरिणयप्रपञ्चनरूपं रुक्मिणीकल्याणाख्यं काव्यमारभमाणः

श्रीराजचूडामणिदीक्षितो नाम महाकविःवि : प्रारिप्सितप्रबन्धपरिसमाप्ति- परिपन्थि-
प्रत्यूहप्रत्याख्यानाय स्वाभीष्टदेवतात्मकं स्त्रीपुंसाकारैकशरीरा- वलम्बनेन स्वम्य
जगज्जनकत्वादिकमभित्र्व्यञ्जयन्तं भगवन्तमर्धनारीश्वरम् अधिकृत्य श्रेयः प्रार्थनरूपं
मङ्गलमाचरन्त्स्वम्याग्रजन्मानमर्धनारीश्वर- नामानमात्मनो विद्यागुरुमप्यर्थादनुसन्धत्ते-

वामालकावल्लभभावमुद्रासीमाविभागेन्द्रमणीशिलेव ।
 

रोभावली राजति यस्य मध्ये सोमावतंसः स सुखाय भूयात् ॥१॥
 

वामेति –यस् यम्य प्रस्तूयमानस्य अर्धनारीश्वरस्येव्यर्थ: । मध्ये वामदक्षिण-

भागयोरन्तराळे न पुनर्वलग्ने रोमावल्या नाभेरूर्ध्व एवावस्थानेन मध्यावस्थि
प्य भावात् । न चोर्ध्वापवर्गायास्सीमाशिलाया मूलावलम्बेनैवा वस्थानस्य वक्तव्यतया
उर: पर्यन्ताक्रमणं प्रतिभासमात्रमेवेति वाच्यम् । देहावलम्बनेनार्धांरूपतया
तादृशसम्भावनानिमित्ततया मध्यशब्दवाच्य- वलग्नोध्वंवेगतनाभेः
 
परत
 
2
 
परत त्र