This page has not been fully proofread.

प्रथमस्सर्गः
 
हृते कलियुगे वर्षेवेंदाग्निग्रहसागरैः ।
यज्ञवेदेश्वरेणैषा कृता मौक्तिकमालिका ॥
 
इह हि—
 
काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यःपरनिवृतये कान्तासम्मिततयोपदेशयुजे ॥
 

 
इति प्रामाणिकप्रसिद्ध्या पुण्यश्लोकगुणवर्णनरूपकाव्यस्य यशःप्रमुखबहुतरदृष्टादृष्ट-
फलोपधायकत्वे निश्चिते तत्रापि भगवच्चरितरूपत्वेन परमपुरुषार्थभूतमोक्षोपयोगि
भगवद्भक्त्युन्मेषं प्रति च प्रभुसम्मिताच्छब्दप्रधानाच्च प्रत्यवायभीत्यः प्रवर्तकाद्वेदात्
तथा सुहृत्मम्मितेभ्योऽयंप्रधानेभ्यो हिताहितविचारसापेक्षतया प्रवर्तकेभ्यः
पुराणादिभ्यश्च कान्तासम्मितस्य रसप्रधानस्य श्रोतुस्सरसतापादनेनांविचारत-
स्सरभस प्रवर्तकस्य काव्यस्याभ्यर्हितत्वेन सहृदयानामात्मनश्च तथाविधनिखिल
पुरुषार्थानाशासानो लोकानुग्रहाय वसुदेवात्कृतावतारस्य भगवतः कृष्णस्य
प्राधान्येन रुक्मिगीपरिणयप्रपञ्चनरूपं रुक्मिणीकल्याणाख्यं काव्यमारभमाणः
श्रीराजचूडामणिदीक्षितो नाम महाकविः प्रारिप्सितप्रबन्धपरिसमाप्ति परिपन्थि-
प्रत्यूहप्रत्याख्यानाय स्वाभीष्टदेवतात्मकं स्त्रीपुंसाकारैकशरीरावलम्बनेन स्वम्य
जगज्जनकत्वादिकमभित्र्यञ्जयन्तं भगवन्तमर्धनारीश्वरमधिकृत्य श्रेयः प्रार्थनरूपं
मङ्गलमाचरन्त्वम्याग्रजन्मानमर्धनारीश्वरनामानमात्मनो विद्यागुरुमप्यर्थादनुसन्धत्ते-
वामालकावल्लभभावमुद्रासीमाविभागेन्द्रमणीशिलेव ।
 
रोभावली राजति यस्य मध्ये सोमावतंसः स सुखाय भूयात् ॥१॥
 
वामेति –यस्य प्रस्तूयमानस्य अर्धनारीश्वरस्येव्यर्थ: । मध्ये वामदक्षिण-
भागयोरन्तरराळे न पुनर्वलग्ने रोमावल्या नाभेरू एवावस्थानेन मध्यावस्थिय
भावात् । न चोर्ध्वापवर्गायास्सीमाशिलाया मूलावलम्बेनैवावस्थानस्य वक्तव्यतया
उर: पर्यन्ताक्रमणं प्रतिभासमात्रमेवेति वाच्यम् । देहावलम्बनेनार्धांगरूपतया
तादृशसम्भावनानिमित्ततया मध्यशब्दवाच्यवलग्नोध्वंगतनाभेः
 
परत
 
2
 
एत्र