2026-03-08 06:33:23 by AdarshT
This page has been fully proofread twice.
<page>
<p>जिग्ये प्रज्ञासमज्ञान्प्रतिभटविदुषोऽवज्ञया यस्सभाया-
मज्ञाञ्जिज्ञासमानानतनुत बहुधा ज्ञानविज्ञानराशीन् ॥
</p>
<verse>तस्मात्सारस्वताब्धेस्समजनि सहजश्रीरपङ्क:कः कलावा-
न्निष्यन्दैस्स्वै रसानामखिलसुमनसः प्रीणयन्विष्णुपादे ।
सक्तो मित्रानुवर्ती निरवधिकमुदं वर्धयन्नुच्छ्रितात्मा
स्वच्छस्सर्वज्ञचूडामणिरवनिसुराधीश्वरो बालचन्द्रः ॥
</verse>
<verse>अर्वाग्यष्षोडशाब्दात्पितुरधिगतषड्दर्शनीसर्वसारो
विद्यावित्तान्समस्तान्प्रतिविबुधसभं वावदूकाञ्जिगाय ।
तन्त्राण्यत्यद्भुताभिर्विषयविशयसिद्धान्तचोद्यार्थिनीभि-
र्हृद्याभिः कारिकाभिः करबदरफलस्पष्टदृष्टान्यचष्ट ॥
</verse>
<verse>यस्सौपर्णं विजयमतनोच्चम्पुकाव्यं तथान्या-
न्याख्यानादीन्यपि डिममुखान्यद्भुतार्थान्यतानीत् ।
प्रज्ञावद्भिः प्रतिपदकृतान्पूरयन्यस्समस्या-
भेदानाधाद्भुवनमुदमावत्सरादेकविंशात् ॥
</verse>
<verse>वेङ्कटसुब्रह्मण्यापरनाम्नस्तस्य सूरिवर्यस्य ।
तनयस्सुनयो विनयात्प्रणयञ्जनयञ्जनस्य निखिलस्य ॥
</verse>
<verse>श्रीबालयज्ञवेदेश्वर इति कुहचित्प्रतीतनामाहम् ।
विवृणोमि विपुलहृदयं काव्यं तद्रुक्मिणीविवाहाख्यम् ॥
</verse>
<verse>तादृक्षस्य महाकवेः कृतिमनल्पार्थामुदारामिमां
व्याकर्तुं कतमोऽहमप्यथ महत्तच्चापलं क्षम्यताम् ।
आपातालनभस्थलान्तविसरत्पाथोभरं दुस्तरं
वार्धिं जानत एव किन्तु हृदयं बाहायुगाप्लावनम् ॥
</verse>
</page>
<p>जिग्ये प्रज्ञासमज्ञान्प्रतिभटविदुषोऽवज्ञया यस्सभाया-
मज्ञाञ्जिज्ञासमानानतनुत बहुधा ज्ञानविज्ञानराशीन् ॥
<verse>तस्मात्सारस्वताब्धेस्समजनि सहजश्रीरपङ्