This page has not been fully proofread.


 
रुक्मिणीकल्याणे सव्याख्याने
 
कंसध्वंसकान्तिमत्युपयमौ काव्ये तथा राघव-

ख्यातितिं मञ्जुळभाषिणीं कमलिनीहंसाभिधां नाटिकाम् ।

चित्राख्यामपि मञ्जरीमकृत यश्शृङ्गारसर्वस्वम-

प्यानन्दोत्तरराघवं च विदधे भाणं क्रमान्नाटकम् ॥
 

 
यश्च श्रीरघुनाथ भूपविजयं साहित्यसाम्राज्यम-

प्यालङ्कारिकप्तर्वमर्मविशदीकारक्षमं निर्ममे ।

योऽकार्षीदपि काव्यदर्पणमथालङ्कारचूडामणिं
 

तेनेदं खलु रुक्मिणीपरिणयाभिख्यं च काव्यं कृतम् ॥
 
-
 

 
तस्मात्केशवदीक्षितादुदभवन्नाम्ना तपोवैदुषी-

विज्ञानैः प्रथितः पतञ्जलिरिति प्रत्यब्दसत्रत्व्रतः ।

तस्मात्केशवदीक्षितस्समुदभूदद्वैतविद्यागुरु-

स्तस्माच्चाजनि रामचन्द्रमखिराट् षड्दर्शनीवल्लभः ॥
 

 
यश्चक्रे
 
लवणासुरस्य निधनं चम्पूप्रबन्धं तथा

ख्यातं केरळभूषणं नवरसासारैकवाराकरम् ।

तस्मादाविरभूदनन्तमहिमा साहित्यसौहित्यवा-

नार्यः केशवदीक्षितस्तदुदितश्श्रीयज्ञवेदेश्वरः ॥

 
यो वासिष्ठं (?) गरिष्ठामकुरुत सुकृतैः कर्मनिष्ठां लघिष्ठां

सत्रैस्सुत्राममुख्यानखिलदिविषदः प्रीणयन्प्रीणयन्नॄन् ।

वेदैश्शास्त्रैः पुराणैस्स्मृतिमुनिसमयैर्निश्चितार्थः प्रजानां
 

धर्माधर्मव्यवस्थामतनुत भुवने निग्रहानुग्रहाभ्याम् ॥

 
तस्यासीत्केशवाख्यस्सकलनिगम सिद्धान्तसिद्धार्थवेत्ता

सूनुस्तस्माच्च जज्ञे नृपशतमहितो यज्ञवेदेश्वराख्यः ।