2026-03-08 12:19:20 by AdarshT
This page has been fully proofread twice.
<page>
<verse>अद्वैतार्णवकौस्तुभं व्यरचयद्यो वादतारावलीं
मध्वध्वंसनबौद्धतन्त्रमथने वेदान्तवादावलिम् ।
प्रख्यातं मणिदर्पणं समयसर्वस्वं विधेर्निर्णयं
तत्त्वानां परिशुद्धिबोधममलं रत्नप्रदीपं स्मृतेः ॥
</verse>
<verse>यो भावनापुरुषवर्यमुखान्यकार्षी-
दष्टादशाप्यथ दशाद्भुतरूपकाणि ।
भावोत्तराणि शितिकण्ठजयादिमानि
काव्यानि षष्टिमतनोदमृतायितानि ॥
</verse>
<verse>ध्वन्यद्ध्वन्यमनोविनोदनिपुणास्साहित्यसञ्जीवनी-
भावोद्भेदरसार्णवादिकृतयः पारेशतं यत्कृताः ।
अन्ये क्षौद्ररसार्द्रसुन्दरगिरः क्षुद्रप्रबन्धायुतं
छन्दोज्योतिषमन्त्रतन्त्रविषया भाषाप्रबन्धास्तथा ॥
</verse>
<verse>अन्याश्च यस्य कृतयो निखिलागमान्त-
सिद्धान्तितान्तरनिरन्तरसूक्तिगुम्भाः ।
षड्दर्शनीसकलमर्मविवेककर्म-
कर्मक्षमास्सुकृतिनां मुदमावहन्ति ॥
</verse>
<verse>कामाक्षीति सती सतीव कविताचातुर्यवागीश्वरी
सौन्दर्ये कमलेव तस्य गृहिणी ख्याताभिजातान्वया ।
तस्मात्केशवदीक्षितस्सुरगुरुप्रख्योऽर्धनारीश्वर-
श्श्रीचूडामणिदीक्षितश्च जगति ख्यातास्सुता जज्ञिरे ॥
</verse>
<p>बुद्धध्या सिद्धध्या समृद्ध्या निजपितृसदृशां स्वैश्चरित्रैर्विचित्रैः
प्रज्ञाविज्ञानमुख्यैस्सहृदयहृदयानन्दसन्दानधुर्याः ।
</p>
</page>
<verse>अद्वैतार्णवकौस्तुभं व्यरचयद्यो वादतारावलीं
मध्वध्वंसनबौद्धतन्त्रमथने वेदान्तवादावलिम् ।
प्रख्यातं मणिदर्पणं समयसर्वस्वं विधेर्निर्णयं
तत्त्वानां परिशुद्धिबोधममलं रत्नप्रदीपं स्मृतेः ॥
<verse>यो भावनापुरुषवर्यमुखान्यकार्षी-
दष्टादशाप्यथ दशाद्भुतरूपकाणि ।
भावोत्तराणि शितिकण्ठजयादिमानि
काव्यानि षष्टिमतनोदमृतायितानि ॥
<verse>ध्वन्यद्ध्वन्यमनोविनोदनिपुणास्साहित्यसञ्जीवनी-
भावोद्भेदरसार्णवादिकृतयः पारेशतं यत्कृताः ।
अन्ये क्षौद्ररसार्द्रसुन्दरगिरः क्षुद्रप्रबन्धायुतं
छन्दोज्योतिषमन्त्रतन्त्रविषया भाषाप्रबन्धास्तथा ॥
<verse>अन्याश्च यस्य कृतयो निखिलागमान्त-
सिद्धान्तितान्तरनिरन्तरसूक्तिगुम्भाः ।
षड्दर्शनीसकलमर्मविवेककर्म-
कर्मक्षमास्सुकृतिनां मुदमावहन्ति ॥
<verse>कामाक्षीति सती सतीव कविताचातुर्यवागीश्वरी
सौन्दर्ये कमलेव तस्य गृहिणी ख्याताभिजातान्वया ।
तस्मात्केशवदीक्षितस्सुरगुरुप्रख्योऽर्धनारीश्वर-
श्श्रीचूडामणिदीक्षितश्च जगति ख्यातास्सुता जज्ञिरे ॥
<p>बुद्