This page has been fully proofread once and needs a second look.

प्रस्तुतहरिणपरैरेव विशेषणविशेष्यवाचकैरप्रस्तुतकृष्णवृत्तस्यापि प्रतीत्या प्रकृताप्रकृतश्लेषालङ्कारः । अत्र बहुषु पुस्तकेषु अग्रसरेण न किमिति पाठो दृश्यते । तदा न किं सुखमनुभूयते अनुभूयत एव । अतो बलव- द्दुःखितस्यापि क्वचित् कालविशेषे सुखमप्यनुभूयेतैवेत्यर्थे मृग एव दृष्टान्तीकृतः । कामिनीवचनेनेति तदेव हरेरुपश्रुतिरूपतया रुक्मिणी- प्राप्त्या वर्तमानविरहार्तेरनुपदनिवृत्तिद्योतकमिति मन्तव्यम् । अनेनैव कविना काव्यदर्पणे अमुमेव पद्यं श्लेषालङ्कारे उदाहृतवंताचिरमिति पठित्वा तथैव विवृतत्वात् तादृश एव पाठ: प्रथमलिखित इति मन्तव्यम् । नत्कूटकं नाम वृत्तम् । "हयदशभिर्नजौ भजजलागिति नत्कूटकम् "
इति लक्षणात् ॥ ७३ ॥
 
इति श्रीविश्वामित्रकुलकलशपारावारराकासुधाकरश्रीबालचन्द्रार्यतातचरण
करुणापरीणाहसमासादितविविधविद्याविलासेन यज्ञवेदेश्वरेण विरचितायां रुक्मिणीकल्याणाख्यसरसमहाकाव्यव्याख्यायां मौक्तिकमालिकाख्यायां द्वितीयस्सर्गस्संपूर्णः ॥