2023-04-17 05:41:08 by jayusudindra
This page has been fully proofread once and needs a second look.
अतनुशराग्रविद्धवपुषेत्य विदर्भभुवं
सुखमनुभूयतेऽद्य हरिणाग्रसरेण चिरम् ।
इति स निशम्य केलिवनपालिवधूवचना-
न्यभजदमन्दमन्तरचिरेण हरिः प्रमदम् ॥ ७३ ॥
इति श्रीदन्तिद्योतिदिवाप्रदीपांङ्कसत्यमङ्गलरत्नखेटश्रीनिवासदीक्षिततनयस्य
कामाक्षीगर्भसंभवस्य श्रीमदर्धनारीश्वरदीक्षितगुरुचरण
' सहजतालब्धविद्यावैशयस्य श्रीराजचूडामणि-
दीक्षितस्य कृतिषु रुक्मिणीकल्याण-
नाम्नि काव्ये द्वितीयः सर्गः ॥
अतन्विति –सः यः पूर्वोक्तविधया विरहपर्याकुलतया दुरन्तचिन्तासन्तान- सन्तापितान्तरङ्गो बभूव तादृशः । हरिः कृष्णः । अतनुभिः अनल्पैः शराणां दर्भाणामग्रैः विद्रं दलितं वपुः गात्रं यस्य तादृशेनापि । छिन्नाग्रशरकाण्ड-
विक्षतगात्रेणेत्यर्थः । तेन एतावन्तं अनेहसं दर्भाङ्कुरानुत्पत्तिर्व्यज्यते । अन्यत्र अतनो: मदनस्य शराग्रै: बाणाग्रै: बाणश्रेष्ठैर्वा विद्धवपुषा विक्षत- शरीरेणापि । एतावत् समयं विरहविह्वलेनापीत्यर्थ: । हरिणाग्रसरेण सारङ्ग सत्तमेन । अन्यत्र अग्रसरेण सर्वोत्तमेन हरिणा कृष्णेन । अद्य सांप्रतं शरसञ्चयसंजननानन्तरम् । अन्यत्र रुक्मिणीप्रापकसामग्रीसंपत्तौ सत्याम् । विशिष्टाः भूयांसः स्वाद्या वा दर्भा: शरा: यस्यां सा विदर्भा तादृशीं भुवं प्रदेशम् । अन्यत्र विदर्भदेशं विदर्भात् विदर्भदेशाधिपतेः भीष्मकात् भवतीति तादृशीं रुक्मिणीं- वा । एत्य प्राप्य । चिरं बहुकालम् । सुखं सौख्यं आनन्दम्। अनुभूयते सांप्रतमनुभुज्यते इत्यर्थः । हरिपक्षे "वर्तमानसामीप्ये वर्तमानवद्वा " इति सन्निहितत्वेन लट्प्रयोगः । इति एवं-
रूपाणि । केलिवनपालिनीनां उद्यानपालिकानां वधूनां योषितां वचनानि हरिणोद्देशेन परस्परोदीरितानि । शब्दश्लेषया रुक्मिणीविरहार्तस्य स्वस्योदर्कश्रेयः प्राप्तावुपश्रुतिविधया सूचकानीत्यर्थः । निशम्य श्रुत्वा । अचिरेण अनुपदमेव । अमन्दं अतिशयितम् । अन्तःप्रमदं हृदयानन्दम् । अभजत् प्रपेदे । शुभोदर्करूपोपश्रुतिमहिम्ना हस्तप्राप्तामेव रुक्मिणीं मत्वा मुमुद इति भावः । अत्रोद्यानपालिकानां