This page has been fully proofread once and needs a second look.

रुक्मिणीकल्याणे सव्याख्याने
 
वियोगिनामिति --- हे मारुत पवन । स्मर: मदनः । वियोगिनां विरहिणाम् ।

वीक्षणोल्कया दृष्टिज्वालया। निजवाहनस्य स्वीययानभूतस्य । ते तव । वायोर्मदन-
वाहत्वादिति भावः । विपत्तितिं विनाशं शङ्कते संभावयतीति तादृश स्सन् ।
विरहिणामयं दृष्टिगोचरश्चेत् सद्य एव दग्धो भवेदिति विचिन्त्येति भावः ।
अनक्षिलक्ष्यत्वस्य अदृष्टिगोचरत्वस्य कथाया वृत्तस्य तिरस्करिणी- मन्त्रस्य उपदे-
शने अतिसर्जने विषये। आचार्यकं उपदेष्टृताम् । आचचार किं अन्वतिष्ठत्किमु ।
आङ्पूर्वाच्चरतेर्लिट् । अत्र मदनस्य स्वयमदृश्यत्वेन निमित्तेन वाहनत्वकृतप्रेमाधी-
नतया मदनकृतादृश्यत्वप्रापकमन्त्रोपदेशं प्रति मदनकृतत्वेन संम्भावितायाः
विरहिजनवीक्षणोल्काप्रदाहसंभावनाया अहेतोर्हेतुत्ववर्णनादसिद्धविषया हेतू-
त्प्रेक्षा ॥ ७९ ॥
 
१४६
 
'

 
[^1]
स्मरानलाश्रुजलोद्यान्नृणां हुताशनादाप इति प्रथा यथा ।

स्मरानलोत्पादनतः समीर ते [^2]हुताशनोत्पादकताकथा तथा ॥७२॥
 
-
 

 
स्मरेति – हे समीर वायो । यथा यद्वत् । स्मर एव मदन एव अनलोऽग्निः

तस्मात्। नृणां विरहिजनानाम् । अश्रुजलस्य शोकबाष्पस्य उदयादुत्पत्ते- र्निमित्तात् ।
हुताशनात् अग्नेः सकाशात् । आप : उदकानि । संभूतानीति शेषः । इति एवंरूपा ।
प्रथा प्रसिद्धिः । " अग्नेराप : " इति श्रुतिमूलेति भावः । तथा तद्वदेव । स्मरानलस्य
मदनरूपाग्ने: उत्पादनत: जननात्
हेतोः । ते तव । हुताशनस्य अग्नेः उत्पादकता-
या: उत्पत्तिकारित्वस्य कथा प्रसिद्धिश्चेत्यर्थः । इति मन्य इति भावः । अत्रत्यादिसिद्धां
अग्निसकाशात् सलिलोत्पत्तिप्रसिद्धिं प्रति च मलयानिलाद्विरहिशोकबाष्पोत्पत्तेः
तथा "वायोरग्निः" इति श्रुतिसिद्धां वायोरग्निरूपभूतोत्पत्तिप्रसिद्धिं प्रति मदनाग्नि-

जनकत्वस्य च हेतुत्वसंभावना हेतूत्प्रेक्षा । मदनस्याग्नित्वरूपणरूपरूप-कानु-
प्राणितेति सङ्करः । इत्थमुद्भावितस्य अर्थद्वयस्य विरहिजन विहिंसाफल कत्वादि-
धर्मसाम्येनौपम्यवर्णनादुपमालङ्कारः प्राधान्येन प्रतीयते ॥ ७२ ॥
 

 
 
[^
1] G. स्मरानि.
 

[^
2] G. हुताशनोत्पादनता.